________________
२७
ऽध्यायः] कर्तव्याकर्त्तव्यवर्णनम् ।
सम्मानाब्राह्मणो नित्यमुद्विजेत विषादिव। . अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥१६२ सुखं ह्यवमतः शेते सुखञ्च प्रतिबुद्धयते । सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥१६३ अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः । गुरौ वसन् सञ्चिनुयाद्ब्रह्माधिगमिकं तपः ॥१६४ तपोविशेषैविविधैर्ऋतैश्च विधिचोदितः। वेदः कृत्लोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥१६५ वेदमेव सदाभ्यस्येत्तपस्तप्स्यन् द्विजोत्तमः । वेदाभ्यास्यो हि विप्रस्य तपः परमिहोच्यते ॥१६६ . आ हैव स नखामेभ्यः परमं तप्यते तपः। . यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥१६७ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥१६८ मातुरमेऽधिजननं द्वितीयं मौञ्जिबन्धने। तृतीयं यत्रदीक्षायां द्विजस्य श्रुतिचोदनात् ॥१६६ तत्र यद्ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् । तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥१७० वेदप्रदानादाचार्य पितरं परिचक्षते । न ह्यस्मिन् युज्यते कर्म किञ्चिदामौञ्जिबन्धनात् ॥१७१ नाभिव्याहारयेद्ब्रह्म स्वधा निनयनादृते । शूद्रण हि समस्तावद्याव_ दे न जायते ॥१७२