________________
मनुस्मृतिः।
[द्वितीयो अध्यापयामास पितृञ्छिशुराङ्गिरसः कविः। पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥१५१ ते तमर्थमपृच्छंत देवानागतमन्यवः । देवाश्चैतान् समेत्योचुाय्यं वः शिशुरुक्तवान् ॥१५२ अज्ञो भवति वै बालः पिता भवति मन्त्रदः। अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥१५३ न हायनैर्न पलितैर्न वित्त न न बन्धुभिः । ऋषयश्चक्रिरे धर्म योऽनूचानः स नो महान् ॥१५४ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥१५५ न तेन वृद्धो भवति येनास्य पलितं शिरः। यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥१५६ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः। यश्च विप्रोऽनधीयानत्रयस्ते नाम विभ्रति ॥१५७ यथा षण्डोऽफलः स्त्रीषु यथा गौर्गवि चाफला । यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥१५८ अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् । वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥१६६ यस्य वाङ्मनसी शुद्ध सम्यग्गुतं च सर्वदा । सवै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥१६० नारुन्तुदः स्यादातॊऽपि न परद्रोहकर्मधीः । ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥१६१