SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अध्यायः] कर्त्तव्याकर्तव्यवर्णनम् । उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते ॥१४० एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः। योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥१४१ निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥१४२ अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् । यः करोति वृतो यस्य स तस्यत्विगिहोच्यते ॥१४३ य आवृणोत्यवितथं ब्रह्मगा श्रवणावुभौ । स माता स पिता शेयस्तं न द्रुह्य त् कदाचन ॥१४४ उपाध्यायान् दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितृन्माता गौरवेणातिरिच्यते ॥१४५ उत्पादकब्रह्मदात्रोगरीयान् ब्रह्मदः पिता । ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥१४६ कामान्माता पिता चैनं यदुत्पादयतो मिथः। संभूति तस्य तां विद्याद्यद्योनाव भिजायते ॥१४७ आचार्यस्त्वस्य यां जातिं विधिवद्व दपारगः । उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा ॥१४८ अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः। तमपीह गुरु विद्याच्छ तोपक्रियया तया ॥१४६ ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥१५०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy