SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः। [द्वितीयो परपत्नी तु या स्त्री स्यादसम्बन्धा च योनितः । तां बयाद्भवतीत्येवं सुभगे भगिनोति च ॥१२६ मातुलांश्च पितृव्यांश्च श्वशुरानृविजो गुरून् । असावहमिति ब्रूयात् प्रत्युत्थाय यवीयसः ॥१३० मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा । संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया ॥१३१ भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि । विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषितः ॥१३२ पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्यपि । मातृववृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥१३३ दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् । व्यब्दपूर्व श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥१३४ ब्राह्मगं दशवर्ष तु शतवर्ष तु भूमिपम् । पितापुत्रौ विजानीयाब्राह्मगस्तु तयोः पिता ॥१३५ वित्त बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरोयो यद् यदुत्तरम् ।।१३६ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥१३७ चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः। स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥१३८ तेषान्तु समवेताना मान्यौ स्नातकपार्थिवौ । राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥१३६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy