SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अयायः] कर्तव्याकर्त्तव्यवर्णनम। २३ सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः। नायन्त्रितस्त्रिोदोऽपि सर्वाशी सर्वविक्रयी ११८ . शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् । शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत् ॥११६ ऊर्ध्वं प्राणा [ नामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥१२० अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि संप्रवर्द्धन्ते आयुर्विद्या यशो बलम् ।।१२१ अभिवादात् परं विप्रो ज्यायांसमभिवादयन् । असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥१२२ नामधेयस्य ये केचिदभिवादं न जानते। तान्प्राज्ञोऽहमिति ब यात् त्रियः सर्वास्तथैव च ॥१२३ भोः शब्द कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने। नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः॥१२४ आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवाने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ।।१२५ यो न वेत्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः॥१२६ ब्राह्मणं कुशलं पृच्छत् क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥१२७ अवाच्यो दीक्षितो नाना यवीयानपि यो भवेत् । भो-भवत्-पूर्वकं त्वेनमभिभाषेत धर्मवित् ।।१२८ .
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy