________________
मनुस्मृतिः। [द्वितीयो यःस्वाध्यायमधीतेऽब्दं बिधिना नियतः शुचिः । तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥१०७ अनीन्धनं भैक्षचर्यामधःशय्यां गुरोहितम् । आ समावर्तनात्कुर्यात् कृतोपनयनो द्विजः॥१०८ आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः। आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ॥१०६ नापृष्टः कस्यचियात् न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडबल्लोक आचरेत् ॥११० अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रति विद्वषं वाधिगच्छति ॥१११ धर्मार्थो यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ।।११२ विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ।।११३ विद्या ब्राह्मणमेत्याह सेवधिस्तेऽस्मि रक्ष माम् । असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥११४ यमेव तु शुचिं विद्यानियतं ब्रह्मचारिणम् । तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥११५ ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् । स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥११६ लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥११७