SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] कर्त्तव्याकर्त्तव्यवर्णनम् । २१ न तथैतानि शक्यन्ते संनियन्तुमसेवया । विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ।।६६ वेदास्यागश्च यज्ञाश्च नियमाश्च तपांसि च । .. न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हिचित् ॥१७ श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः। न हृष्यति ग्लायति वा स विशेयो जितेन्द्रियः ।।६८ इन्द्रियाणां तु सर्वेषां यद्य के क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम् ॥ वशे कृत्वेन्द्रियप्रामं संयम्य च मनस्तथा । सर्वान्संसाधयेदर्थानक्षिण्वन्योगतस्तनुम् ॥१०० पूर्वा सन्ध्यां जपंस्तिश्ठेत् सावित्रीमार्कदर्शनात् । पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥१०१ पूर्व सन्ध्यां जपंस्तिष्ठन्नशमेनो व्यपोहति । पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥१०२ न तिष्ठति तु यः पूर्वा नोपास्ते यश्च पश्चिमाम । स शूद्रवद्वहिष्कार्यः सर्वस्माद्विजकर्मणः ॥१०३ अपां समीपे नियतो नैत्यकं विधिमास्थितः । सावित्रीमप्यधीयीत गत्वारण्यं समाहितः ॥१०४ वेदोपकरणे चैव स्वाध्याये चैव नैत्यके । नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥१०५ नैत्यके नास्त्यनध्यायो ब्रह्म सत्रं हि तत् स्मृतम् । ब्रह्माहुतिहुतं पुण्यमनभ्यायवषट् कृतम् ॥१०६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy