SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ध्यायः] ___ ब्रह्मचर्यवर्णनम् । ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा। स्रवत्यनोकृतं पूर्व परस्ताच विशीर्यति ॥७४ प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः। प्राणायामैत्रिभिः पूतस्तत ओंकारमर्हति ।।७५. अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः। वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥७६ त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत्। . तदित्यचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ।।७७ एतदक्षरमेताञ्च जपन् व्याहृतिपूर्विकां । सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥७८ सहस्रकृत्वस्त्वभ्यस्य वहिरेतत्रिकं द्विजः।। महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥७६. एतयर्चा विसंयुक्तः काले च क्रियया स्वया। ब्रह्मक्षत्रियवियोनिर्गहणां याति साधुषु ।।८० ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः। त्रिपदा चैव सावित्री विशेयं ब्रह्मणो मुखम् ।।८१ . योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः। स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥८२ एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः। सावित्र्यास्तु परं नास्ति मौनात सत्यं विशिष्यते ॥८३ क्षरन्ति सर्वा वैदिक्यो जुहोति यजतिक्रियाः। अक्षरं त्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ।।८४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy