________________
સમ્રાટ્ સપ્રતિની સંસ્કૃત કથા
૩૫૯
येन व्रतिसमाचार-वासनावासितो जनः । अनार्योऽप्यन्नदानादौ साधूनां वर्त्तते सुखम् ॥ १५९ ॥ चिन्तयित्वेत्थमाकार्यानार्यानेवमभाषत । भो ! यथा मद्भटा युष्मान्, याचन्ते मामकं करं ।। १६० तथा दद्यात तेऽप्यूचुः कूर्म एवं ततो नृपः । तुष्टस्तान् प्रेषयामास, स्वस्थानं स्वभटानपि ॥ १६१ ॥ सत्तपस्विसमाचार-दक्षान् कृत्वा यथाविधि । प्राहिणोन्नृपतिस्तत्र, बहुंस्तद्वेषधारिणः ॥ १६२ ॥ ते च तत्र गतास्तेषां वदन्त्येवं पुरः स्थिताः । अस्माकमन्नपानादि, प्रदेयं विधिनामुना ॥ १६३ ॥ तथा हि
द्विचत्वारिंशता दोषैर्विशुद्धं यद्भवेन्नहि । तन्नैव कल्पतेऽस्माकं, वस्त्रपात्रादि किञ्चन ॥ १६४ ॥ आधर्मादयश्वामी, दोषा इत्थं भवन्ति भोः ! । तच्छुद्धमेव नः सर्व, प्रदेयं सर्वदैव हि ॥ १६५ ॥ न चात्रार्थे वयं भूयो, भणिष्यामः किमप्यहो !। स्वबुद्ध्या स्वत एवोच्चैर्यत ध्वं स्वामितुष्टये ॥१६६॥ इत्यादिभिर्वचोभिस्ते, तथा तैर्वासिता दृढम् । कालेन जज्ञिरेऽनार्या, अध्यार्येभ्यो यथाऽधिकाः १६७ अन्येद्युश्च ततो राज्ञा, सूरयो भणिता यथा । साधवोऽन्धादिदेशेषु किं न वो विहरन्त्यमी ॥ १६८ ॥ सूरिराह न ते साधु-समाचारं विजानते । राज्ञोचे दृश्यतां तावत्कीदृशी तत्परिक्रिया || १६९ ॥ ततो राजोपरोधेन, सूरिभिः केऽपि साधवः । प्रेषितास्तेषु ते पूर्व, वासनावासितत्वतः ॥ १७० ॥ साधूनामन्नपानादि, सर्वमेव यथोचितम् । नीत्या सम्पादयन्ति स्म, दर्शयन्तोऽतिसंभ्रमम् ॥ १७१ ॥ सूरीणामन्तिकेऽन्येद्युः, साधवः समुपागताः । उक्तवन्तो यथाऽनार्या, नाममात्रेण केवलम् ॥ १७२ ॥ वस्त्रान्नपानदानादि-व्यवहारेण ते पुनः । आर्येभ्योऽभ्यधिका एव, प्रतिभान्ति सदैव नः ॥ १७३ ॥ तस्मात्सम्प्रतिराजेनानार्यदेशा अपि प्रभो ! । विहारयोग्यतां याताः सर्वतोऽपि तपस्विनाम् १७४ श्रुत्वैवं साधुवचनमाचार्यार्यसुहस्तिनः । भूयोऽपि प्रेषयामासुरन्यानन्यांस्तपस्विनः || १७५ ।। ततस्ते भद्रका जाताः, साधूनां देशनाश्रुतेः । तत्प्रभृत्येव ते सर्वे, निशीथेऽपि यथोदितम् ।। १७६ ।। समणभडभाविएसुं, तेसुं देसेसु साईहिं । साहू सुहं विहरिया, तेणं ते भद्दया जाया
19 ॥ १ ॥
46
एवं सम्प्रतिराजेन, यतीनां सम्प्रवर्त्तितः । विहारोऽनार्यदेशेषु, शासनोन्नतिमिच्छता ॥ १७७॥ किश्च स्वकीयनगरे, कान्दुकादिजना अपि । तेन राज्ञैवमादिष्टाः साधुदानप्रवृत्तये ॥ १७८ ॥ यदहो ! साधु लोकस्योपकाराय प्रजायते । तदेयं भवद्भिस्तस्मै, मूल्यं दास्याम्यहं तु वः ॥ १७९॥ तथा प्राग्भवरक्कत्वं, स्मरता तेन दुःसहम् । स्त्रपुरस्य प्रतोलीषु चतसृष्वपि कारितम् ॥ १८० ॥ अवारितद्विषमित्रं, महासत्रचतुष्टयम् । प्रवर्त्तितं महादानं, तत्र दीनादिवांछया ॥ १८९ ॥ दत्तशेषं च यत्तत्र, महानसिकसंहतेः । तदाभाव्यं ततो राज्ञा, ते पृष्टा अन्यदेदृशम् ॥ १८२ ॥ यदत्र दत्तशेषं भोः !, तेन यूयं विधत्त किम् । त ऊचुर्देव ! सर्वं नः स्वगृहेषूपयुज्यते ॥ १८३॥
?