________________
૩૫૭
સમ્રાટુ સંપ્રતિની સંસ્કૃત કથા ततोऽसौ लन्धचैतन्यो, जातिस्मरणपूर्वकम् । उत्थाय क्षणमात्रेण, सूरीणामन्तिकं गतः॥१२५ वन्दित्वा भावसारंच,पप्रच्छ विनयानतः। भगवन् ! जिनधर्मस्य,सेवितस्येह किं फलम् ॥१२६ उवाच सरिर्मोक्षोऽस्य, सुचीर्णस्य फलं नृप! । स्वर्गोवा तदसंप्राप्तौ,तथा चोक्तमिदं वचः॥१२७
" जिणधम्मफलं मोक्खो, सासयसोक्खो जिणेहिं पन्नत्तो ।
नरसुरसुहाई अणुसंगयाइं, इह किसिपलालंव" ॥१॥ भूयोप्यभिदधौ राजा, सामायिकफलं वद । तस्याव्यक्तस्य भो ! राज्यमित्यवादीन्मुनीश्वरः॥ संजातप्रत्ययो राजा, प्रमोदभरनिर्भरः। अब्रवीदेवमेवैतत्त्वं, यथाऽऽत्थ मुनिप्रभो ! ॥१२९॥ किञ्च प्रत्यभिजानीथ, यूयं मां किं न वाधुना ?। वित्थ चेद्बत तत्कोऽहं ? समाधायाथ सोऽब्रवीत् कौशाम्ब्यां भो! महापुर्यामासीस्त्वं द्रमकः पुरा । अन्यदा तां वयं याता, विहरन्तो यथाविधि। अन्योऽप्यस्मद्गुरुभ्राता,ज्येष्ठ आर्यमहागिरिः। वसतेस्तत्र साङ्कव्यात्पृथगासीव्यवस्थितः१३२ ततोऽसद्वतिनो भिक्षा निमित्तं धनिनो गृहे । धनाख्यसार्थवाहस्य, प्रविष्टाः शान्तचेतसः१३३ सार्थवाहेन दृष्टाश्च, सद्भक्त्या प्रतिलाभिताः । मोदकाचैवरैः खाद्यैर्दुर्भिक्षेऽपि तदा किल।।१३४ इतश्च द्रमकत्वेन, भिक्षार्थ त्वमुपागतः । तदेव गृहमालोक्य, लब्धाभिक्षांस्तथा यतीन्॥१३५ याचयामास तानेव, भिक्षापासं त ऊचिरे। अस्मद्गुरव एवास्य, स्वामिनो न पुनर्वयम् ॥१३६ ततस्तत्पृष्ठलग्नस्त्वं, मत्समीपं तदागतः । यातिचवाँश्च मां भिक्षां, साधुभिश्च न्यवेदि मे ॥१३७ अस्मत्सकाशतोऽप्येष, पूर्व याचितवानिति । उपयुज्य श्रुते ज्ञात्वा, शासनाधारतां तव ॥१३८॥ अभाष्यत मया भद्र! गृहाण त्वं व्रतं मम । येनाभीष्टं तवाहारं, परिपूर्ण प्रदापये ॥ १३९ ।। प्रतिपने वचस्यस्मिंस्त्वया दत्तं मया तदा । सामायिकं तवाव्यक्तं, दीक्षादानपुरस्सरम् ॥१४० भोजनं च तथाभीष्टं, यावत्तृप्ति विधापितः । अत्याहारात्ततो जाता, तदानीं ते विसूचिका॥१४१ गाढतद्वेदनाग्रस्तः, क्षीणत्वादायुषो द्रुतम् । मृत्वोत्पन्नः कुणालस्य, स त्वं पुत्रो नृपोत्तमः॥१४२ तदेवमेषा तव राज्यसंपदव्यक्तसामायिकभावलभ्या ।
तस्मादमुत्रानुभवप्रसिद्धे, व्यक्तेऽपि कुर्याः सुतरां प्रयत्नम् ॥१४३ ॥ श्रुत्वैतत्सूरिवचः प्रणम्य चरणौ च मुनिवरस्य नृपः। ___ इदमब्रवीत्वदीयः प्रभो ! प्रसादः समस्तो मे
॥१४४॥ यदि नाकरिष्यत भवान् , निर्व्याजदयानिधिर्मयीश ! कृपाम् । ___ मृत्वा बुभुक्षयातस्तदाहमपतिष्यमशुभगतौ ।
॥१४५॥ तदेषा राज्यसम्पत्तिः, सप्ताङ्गप्रविराजिता । सदाझैश्वर्यसंपन्ना, सर्वा मे त्वत्प्रभावतः ॥१४६॥ तस्मात्त्वमेव मे नाथ!,पिता माता गतिः पतिः। प्रकाशदीप आश्वासद्वीपस्त्राणं च सर्वतः॥१४॥