SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ૩૫૬ સમ્રાટ્ સંપ્રતિ तं वृत्तान्तं परिज्ञाय, राज्ञा शोकपरेण च । व्यचिन्ति चिन्तितं कार्यमन्यथा जातमन्यथा ॥ ९६ ॥ तदेतत्सत्यमेवेह, विद्वद्भिर्यदुष्यते । कार्यसिद्धिर्न चिन्तातः, किन्तु दैवनियोगतः ॥९७॥ राज्यस्यायोग्य एवायं तदिदानीमजायत । ततोऽदायि नृपेणैको, ग्रामोऽस्मै तुच्छजीवनः। ९८ || उज्जयिनी पुरी दत्ता, सपत्नीतनयस्य तु । कुमारभुक्तिरासीद्या, तां तदा पालयत्यसौ ॥ ९९ ॥ निजसम्प्राप्तिसन्तुष्टः, कुणालस्त्वविषण्णधीः । तस्थौ तत्रैव गन्धर्व - विनोदासक्तमानसः ॥ १००॥ शरच्छ्रीनामिका तस्य भार्या वर्यकुलोद्भवा । भुञ्जानस्य तया भोगान्, गतः कालः कियानपि ।। पुत्रोऽन्यदासमुत्पेदे, तस्या दैवनियोगतः । ततः कुणालो निर्गत्य, ग्रामादज्ञातचर्यया ॥ १०२ ॥ बभ्राम नगर ग्राम - मण्डितां मेदिनीमिमाम् । कालेन कियताप्यापत्पुरं पाटलिपुत्रकं ॥ १०३ ॥ तत्र मन्त्र्यादिगेहेषु, गायता तेन रञ्जितः । तथा जनः समग्रोऽपि यथाऽसावेवमादृतः ॥ १०४ ॥ किं किन्नरोऽथ गन्धर्वः, किश्चायं सुरगायनः ? । प्रच्छाद्य निजमाकारमेको गायति सुस्वरः ।। १०५ राज्ञः पुरोऽन्यदा लोकैरेवमेवोदितं ततः । कौतुका कृष्टमनसा, नृपेणाह्वायितश्च सः ॥ १०६ ॥ एष प्रवर्त्तितो गातुं धृत्वा यवनिकान्तरे । हीनाङ्गं येन पश्यन्ति, प्राणिनं न नृपोत्तमाः ॥ १०७॥ आवर्जितस्तथा राजा, गायता तेन सुस्वरम् । वृणीष्व वरमित्येवं, बभाण त्वरया यथा ॥ १०८॥ ततो विज्ञाय राजानं, स्वगीतपरितोषितम् । प्रस्तावपाठकः श्लोकं, पपाठ प्रणयादसौ ॥ १०९ ॥ प्रपौत्रश्चन्द्रगुप्तस्य, बिन्दुसारस्य पौत्रकः । पुत्रोऽशोकश्रियो राज्ञः, काकिनीं याचतेऽन्धकः ॥ ११० राजा तु मम पुत्रोऽयमिति सास्रविलोचनः । उत्सार्थ तिरस्करिणीं, तमुत्संगे न्यवीविशत् ॥ १११ भाणीच्च यथा पुत्र !, किमल्पं याचितं त्वया । उदितं मत्रिभिर्भूप । नेदमल्पं यत शृणु ॥ ११२ ॥ सन्न्यायोपात्तवित्तानां, सच्च एव स्थितात्मनाम् । निर्व्याजकृतधर्माणां राज्ञां राज्यं हि काकिनी ततोsवादीत्पुना राजा, वत्सान्धः किं करिष्यति ? । त्वं राज्येन स तूवाच, पुत्रो मे देव ! विद्यते जजल्प नृपतिः पुत्र, उदपादि कदा तव । विनयप्रह्वशिरसा, तेनोचे तात ! सम्प्रति ॥ ११५ ॥ सम्प्रतीत्येव नामास्य, ततो राज्ञा निवेशितम् । आनाय्य शुभलग्ने च, राज्ये स स्थापितो मुदा ॥ कालक्रमेण जातश्च, भूपतिश्चण्डशासनः । साधितं चार्द्धभरतं नीत्या वर्द्धयता श्रियम् ॥ ११७॥ असिद्धपूर्वाः पूर्वेषामुन्मत्ताः स्वीयसंपदा । अनार्याः किल ये लोका, ग्राहितास्तेऽपि शासनं ।। ११८ अन्यदा तस्य भूभर्तुरवन्तिपुरवासिनः । प्रासादे रममाणस्य, स्वमित्रैः सह लीलया ॥ ११९॥ जीवत्स्वामिकां प्रतिमां वन्दितुं समुपागताः । भ्रमन्तो रथयात्रायां, स्वगृहाङ्गण वर्त्तिनः ॥ १२० युक्ताश्चतुर्विधेनापि, श्रीसङ्केन महात्मना । दृष्टिगोचरमाजग्मुराचार्यार्य सुहस्तिनः ॥ १२१ ॥ ततोऽसौ चिन्तयामास, स्मरणोन्मुखचेतसा । दृष्टपूर्वा इवामी मे, प्रतिभान्ति मुनीश्वराः ॥ १२२ क्क पुनर्वीक्षिता एते, इतीहापोहवर्त्तिनः । मूर्च्छागच्छदतुच्छास्य, सर्वतस्तन्वती तमः ॥ १२३ प्रत्यासन्नजनेनासौ, ततश्चान्दनवारिणा । प्रसिक्तो वीजितश्चाशु, तालवृन्तानिलादिभिः ।। १२४
SR No.032628
Book TitleSamrat Samprati Yane Prachin Jain Itihasni Pramanikta
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherKhengarji Hiraji Co
Publication Year1940
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy