________________
૩૫૫
સમ્રાટું સપ્રતિની સંસ્કૃત કથા अहो! प्रधानरत्नानि, भविष्यन्त्यत्र निश्चितम् । इति बुद्ध्या विपाटथैनां,ददर्शान्तः समुद्कम्६७ बीजकानि निधानानां, सन्त्यमुत्रेति वाञ्छया। उद्घाट्य वीक्षते यावत्तावद्गन्धानवैक्षत ॥६८॥ लिखितं पत्रकं चैकं, तत आघ्राय तानसौ । पत्रकं वाचयामास, प्रहर्षापूर्णमानसः ॥ ६९॥ आघ्राय य इमान् गन्धान्, ब्रह्मचर्यादिसेवया। न स्थास्यति व्रतीवाशु, स यास्यति यमान्तिकं एतत्परीक्षणार्थं चा-घ्राप्य गन्धानिमान्नरम् । विषयान् भोजयामास, पश्चाप्येकं समैथुनान्।।७१ ततः परासुतां प्राप्त, दृष्ट्वा तमचिरादसौ । तस्थौ तपस्विवृत्त्यैव, जीवितव्यं रिरक्षिषुः ।।७२।। दध्यौ च कौशलं बुद्धे-रहो चाणाक्यमंत्रिणः। म्रियमाणेन येनाहं, जीवन्नपि मृतः कृतः ॥७३॥ अभव्यभावतश्चैष, मुनिवृत्तावपि स्थितः। न मुनित्वफलं लेभे, लप्स्यते वा न जातुचित् ।।७४॥ इतश्च बिन्दुसारस्य, पृथिवीतिलकाभिधा । अभृत् प्राणप्रिया देवी, पुत्रस्तस्या अजायत ॥७५॥ विलसत्पत्रसच्छायः, प्रधानसुमनोहरः। न केवलमशोकश्रीर्यो, नाम्ना चरितेन च ॥७६ ॥ कलाकौशलशाली च, यौवनस्थो यदाजनि । यौवराज्यपदे पित्रा, तदासौ विनिवेशितः ॥७७॥ मृत्युपर्यवसानत्वाजीवलोकस्य चान्यदा । पितर्युपरते राजा, सैव मन्त्र्यादिभिः कृतः॥७८॥ राज्यं पालयतस्तस्य, कुणालाख्यः सुतोऽजनि । बालस्यैवास्य माता च,मृता दैवनियोगतः .७९ सपत्नीमातृभीत्या च, यौवराज्ये निवेश्य तम् । प्रधानमंत्रिसामन्त-समेतं विससज्जे सः॥८॥ कुमारभुक्तिदत्तायामुजयिन्यां नृपोऽस्य च । स्वहस्तलिखितांल्लेखान् , स्नेहात्प्रेषयते सदा॥८१॥ कलाग्रहणयोग्यं च, विज्ञायैनमथान्यदा । तदीयमंत्रिणामेवं, लिलेखाध्याप्यतामसौ ॥ ८२ ॥ अनुद्वानाक्षरं लेखमसंवयं विमुच्य च । तत्रैव तं समुत्तस्थौ, राजा स्वतनुचिंतया ॥ ८३ ॥ इतः सपत्नमात्रा च, नृपान्तिकनिविष्टया । तत्रस्थो ददृशे लेखो, गृहीत्वा वाचितश्च सः॥८४॥ स्वपुत्रस्य ततो राज्यमिच्छन्त्या कज्जलं दृशः।समादाय नखाग्रेण,कुमारोऽध्याप्यतां कृतम्।।८५ न च तल्लक्षितं राज्ञा, कुर्वता प्रतिवाचनाम् । संवर्त्य प्रेषयामास, तं तेषां तत्र भूपतिः ॥ ८६ ।। असम्भाव्यं तमथं च, दृष्ट्वा ते तत्र मंत्रिणः। विलक्षवदनाः सन्तश्चिन्तयामासुरीदृशम् ॥८७॥ स्नेह व नु कुमारेऽस्य ? क्क चादेशोऽयमीदृशः। दारुणोऽस्माकमित्येवं, नेदं सङ्गतिमङ्गति ८८ किश्चापरस्य कस्यापि, खलस्येदं विचेष्टितम् । चिन्तयत्स्वेवमेतेषु, कुमारो लेखमग्रहीत् ॥८९॥ प्रवाच्य खयमेवामुमब्रवीदिदमञ्जसा । नास्माकं मौर्यवंश्यानामाज्ञा प्रतिहता क्वचित् ॥९० ॥ तरिक प्रथममेवाहमागतां जानकीमिमाम् ? आज्ञामतिक्रमिष्यामि, स्वशरीरार्थलम्पटः॥९॥ तस्मादहो ! नरा शीघ्रं, ज्वलज्ज्वलनभासुरां । तप्तां लोहशलाका मे, समर्पयत सत्वरम् ॥१२॥ इत्युक्त्वा तां समानाय्य, वारयत्स्वपि मंत्रिषु । अक्षिणी अञ्जयामास, तया निर्भयमानसः॥९३॥ तत्क्षणे च समुत्तस्थौ, हाहारवविमिश्रितः। आक्रन्दः सर्वलोकस्य, पुरयनिव रोदसी ॥ ९४ ॥ जीवलोकं कुमारोऽपि, तत्क्षणादक्षिनाशतः। सर्वमस्तं गतं मेने, स्वालोकरहितत्वतः ॥ ९५ ॥