________________
३००
સમ્રા સંપ્રતિ भोक्ता जातः। एकदा रथयात्रार्थ आगतं श्रीआर्यसुहस्तिहरिं दृष्ट्वा जातिस्मरणं ज्ञानं उत्पनं । तत आगत्य गुरुणां पृष्टं-" हे स्वामिन् ! अव्यक्तसामायिकस्य किं फलं?" ततो गुरुमिः प्रोक्तं-" राज्यादिकं।" ततो विशेषतः प्रत्ययो जातः। गुरुमिः अपि उपयोगेन ज्ञातः तस्य पूर्वभवः प्रतिबोधितश्च, गृहीतः श्रावकधर्मः । ततः संप्रतिभूपेन [१,२५,०००]सपादलक्षनवीनप्रासादा:कारिताः, सपादकोटिबिम्बानि[१,२५,०००००] कारयित्वा प्रतिष्ठापितानि । [१३,००० ]* त्रयोदशसहस्राः जीर्णोद्धाराः कारिताः। [९५००० ] पश्चनवतिसहस्रपित्तलप्रतिमाः कारिताः । सप्तशतानि [७०० ] दानशाला सत्राकारशाला मण्डिताः। देवगृहप्रतिमादिभिः त्रिखण्डामपि पृथिवीं मण्डितां अकरोत् । करं मुक्त्वा पूर्वसाधुवेषधारिस्ववण्ठप्रेषणादिना अनार्यदेशान् अपि साधुविहारयोग्यान् अकरोत् । अनार्यदेशीयभूपान् जैनधर्मरतान् अकरोत् । पुनः ये वस्त्रपात्रअन्नदधिदुग्धघृतादिकं प्रासुकद्रव्यविक्रयं कुर्वन्ति, तेषां संप्रतिभूपेन ज्ञापितं-" भो ! साधूनां अग्रे सर्व ढौकनीयं, यच्च ते साधवो लान्ति तत् तेभ्यो देयमेव । भवतां च तन्मूल्यं मम कोष्ठगारिक० प्रच्छन्नं दास्यति । तैः तथा कृतं, साधुभिः अशुद्धमपि शुद्धबुद्धथा गृहीतं । संप्रतिभूपः श्रीआर्यसुहस्तिहरिप्रतिबोधित एवंविधो बभूव । एवंविधाः श्रीआर्यसुहस्तिसूरयः चारित्रं प्रतिपाल्य स्वर्ग जग्मुः ९॥
(कल्पसूत्रकल्पलता)
ATTA
* પૃ. ૨૯૯ ઉપર છત્રીસ હજાર જિનાલયોનો જીર્ણોદ્ધાર કર્યો તેમ જણાવ્યું છે જ્યારે અહીં તેર હજાર જણાવેલ છે, તે મતાંતર જાણવો. ૩૬૦૦૦ની સંખ્યા વધારે ગણનાપાત્ર છે.