________________
૧રર
સમ્રાટ્ સંપ્રતિ
भगवन् ! भवद्भिरपि किं स्वप्नो दृष्टः १ । कथमन्यथेत्थं वित्थ ? सूरिश्वदत् - भद्रे ! जिना - गमात्सर्वमवगम्यते । पुष्पचूलाऽवोचत् - भगवन् ! केन कर्मणा ते प्राप्यन्ते । गुरुरगृणाद्भद्रे ! महारम्भपरिग्रहैर्गुरुप्रत्यनीकतया पञ्चेन्द्रियवधान्मांसाहाराच्च तेष्वंगिनः पतन्ति । क्रमेण स सुरस्तस्यै स्वर्गानदर्शयत् स्वप्ने । राज्ञा तथैव पाखण्डिनः पृष्टास्तानपि व्यभिचारिवाचो विसृज्य भूपस्तमेवाचार्यं स्वर्गस्वरूपमप्राक्षीत् । तेनापि यथावत्तत्रोदिते स्वर्गाप्तिकारणमपृच्छद्राज्ञी । ततः सम्यक्त्वमूलौ गृहि यतिधर्मावादिशन्मुनीशः । प्रतिबुद्धा च सा लघुकर्म्मा । नृपमनुज्ञापयति स्म प्रव्रज्यायै । सोऽप्यूचे - यदि मगृह एव भिक्षामादत्से तदा प्रव्रज । तयोरीकृते नृपवचसि सा सोत्सवमभूत्तस्याचार्यस्य शिष्या गीतार्था च । अन्यदा भाविदुर्भिक्षं श्रुतोपयोगात् ज्ञात्वा सूरिर्गच्छं देशान्तरे प्रैषीत् । स्वयं तु परिक्षीणजङ्घाबलस्तत्रैवास्थात्ः भक्तपानं च पुष्पचूलाऽन्तः पुरादानीय गुरवेऽदात् । क्रमात्तस्या गुरुशुश्रूषाभावनाप्रकर्षात् क्षपकश्रेण्यारोहात्केवलज्ञानमुत्पेदे । तथापि गुरुवैयावृत्यान निवृत्ता । यावद्धि गुरुणा न ज्ञातं यदयं केवलीति तावत् पूर्वप्रयुक्तं विनयं केवल्यपि नात्येति । सापि यद् यद्गुरोरुचितं रुचितं च तत्तदन्नादि सम्पादितवती । अन्यदा वर्षत्यब्दे सा पिण्डमाहरद् । गुरुभिरभिहितम् - वत्से ! श्रुतज्ञाऽसि, किमिति वृष्टौ त्वयाऽऽनीतः पिण्डः ? इति । साऽभाणीत्-भगवन् ! यत्राध्वनि अप्कायोऽचित्त एवासीत्तेनैवायासिषमहम् ; कुतः प्रायश्चित्तापत्तिः १ । गुरुराह - छद्मस्थः कथमेतद्वेद १ । तयोचे केवलं ममास्ति । ततो मिथ्या मे दुष्कृतम् ; केवल्याशातित इति ब्रुवन्नपृच्छत्तां गच्छाधिपः - किमहं सेत्स्यामि न वेति ? केवल्यूचे मा क्रुड्व मधृतिम् ; गङ्गामुत्तरतां वो भविष्यति केवलम् । ततो गङ्गामुत्तरीतुं लोकैः सह नावमारोहत्सूरिः । यत्र यत्र स न्यषीदत्तत्र तत्र नौर्मक्कुमारेभे । तदनु मध्यदेशासीने मुनीने सर्वापि नौर्मक्तं लग्ना । ततो लोकैः सूरिर्जले क्षिप्तः । दुर्भगीकरणाविराद्वया प्राग्भवपत्न्या व्यन्तरीभूतयाऽन्तर्जलं शूले निहितः । शूलप्रोतोऽप्ययमप्कायजीवविराधनामेवाशोचयन्नाऽऽत्मपीडाम् । क्षपकश्रेण्यारूढोऽन्तकृत्केवलीभूय सिद्धः । आसन्नैः सुरैस्तस्य निर्वाणमहिमा चक्रे । अत एव तत्तीर्थं प्रयाग इति जगति पप्रथे । प्रकृष्टो यागः पूजा अत्रेति प्रयाग इत्यन्वर्थः । शूलप्रोतत्वगतानुगतिकया चाद्यापि परसमयिनः क्रकचं स्वाङ्गे दापयन्ति तत्र । वटश्च तत्र कणशस्तुरुष्कैछिन्नोऽपि मुहुर्मुहुः प्ररोहति ।
सूरेः करोटिर्यादोभिस्त्रोट्यमानाऽपि जलोर्मिभिर्नदीतीरं नीता । इतस्ततो लुलन्ती च शुक्तिवन्नदीतटे क्वापि गुप्तविषमे प्रदेशे विलग्य तस्थौ । तस्य च करोटिकर्परस्यान्तः कदाचित्पाटलाबीजं न्यपप्तत् । क्रमात् करोटिकर्परं भित्त्वा दक्षिणहनोः पाटलातरुरुद्गतो विशालश्चायमनि । तदत्र पाटलिद्रोः प्रभावाच्चापनिमित्ताच्च नगरं निवेश्यताम्, आशिवाशब्दं च