________________
प्रकरण २३ मुं.
- ॥ पाटलिपुत्रनगरकल्पः ॥ आनम्य श्रीनेमिनमनेकपुरत्नजनिपवित्रस्य ।
श्रीपाटलिपुत्राहयनगरस्य प्रस्तुमः कल्पम् ॥१॥ पूर्व किल श्रीश्रेणिकमहाराजेऽस्तंगते तदात्मजः कूणिकः पितृशोकाच्चम्पापुरी न्यवीविशत् । तस्मिंश्चालेख्यशेषतां प्रयाते तत्सनुरुद्रायिनामधेयश्चम्पायां क्षोणिजानिरजनिष्ट। सो. ऽपि स्वपितुस्तानि तानि सभाक्रीडाशयनासनादिस्थानानि पश्यन्नस्तोकं शोकमुदवहत् । ततोऽमात्यानुमत्या नूतनं नगरं निवेशयितुं नैमित्तिकवरान् स्थानगवेषणायादिक्षत् । तेऽपि सर्वत्र तांस्तान् प्रदेशान् पश्यन्तो गङ्गातटं ययुः । तत्र कुसुमपाटलं पाटलितरं प्रेक्ष्य तच्छोभाचमत्कृतास्तच्छाखायां निषण्णं चापं व्यात्तवदनं स्वयं निपतत्कीटकपेटकमालोक्य चेतस्वचिन्तयन्-अहो ! यथाऽस्य चापपक्षिणो मुखे खयमेत्य कीटाः पतन्तः सन्ति तथात्र स्थाने नगरे निवेशितेऽस्य राज्ञः स्वयं श्रियः समेष्यन्ति । तच ते राज्ञे व्यजिज्ञपन् । सोऽप्यतीव प्रमुदितः । तत्रैको जरनैमित्तिको व्याहरद्-देव ! पाटलातरुरयं न सामान्यः। पुरा हि ज्ञानिना कथितम्
पाटलादुः पवित्रोऽयं महामुनिकरोटिभूः ।
एकावतारोऽस्य मूलजीवश्चेति विशेषतः ॥१॥ राज्ञोक्तम्-कतमः स महामुनिः । तदनु जगाद नैमित्तिकः-श्रूयतां देव!। उत्तरमथुरायां वास्तव्यो देवदत्ताख्यो वणिकपुत्रो दिग्यात्रार्थ दक्षिणमथुरामगमत् । तत्र तस्य जयसिंहनाम्ना वणिक्पुत्रेण सह सौहृदमभवत् । अन्यदा तद्गृहे भुञ्जानोऽनिका