________________
प्रथमः सर्गः
६१
समा०-- अरीणाम् पुराणि इति अरिपुराणि, विजितानि अरिपुराणि येन सः, विजितारिपुरः । अर्थस्य पतिः अर्थपतिः । अथर्वणः निधिः अथर्वनिधिः तस्य, अथर्वनिधः । अर्थादनपेता अर्थ्या, ताम् अर्थ्याम् ।
1
अभि० -- वसिष्ठकुशलप्रश्नानन्तरं चक्रवर्ती वाक्पटू राजा दिलीपः वसिष्ठं साभिप्रायमुवाच ।
हिन्दी -- वसिष्ठ जी के कुशल पूछने पर वाक्पटु चक्रवर्ती राजा दिलीप साभिप्राय वचन बोले ॥५६॥
उपपन्नं ननु शिवँ सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ ६० ॥
सञ्जीविनी - हे गुरो । सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । ' स्वाम्यमात्यसुहृत्कोश राष्ट्रदुर्गबलानि च । सप्ताङ्गानि ' इत्यमरः । शिवं कुशलमुपपन्नं ननु युक्तमेव । नन्ववधारणे । ' प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमरः । कथमित्यत्राह - यस्य मे देवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम् । मानुषीणां मनुष्येभ्य आगतानां चोरभयादीनाम् । उभयत्रापि 'तत आगतः' इत्यण् । 'टिड्ढाणम् ०' इत्यदिना ङीप् । आपदां व्यसनानां त्वं प्रतिहर्ता वारयितासि । अत्राह कामन्दक::- 'हुताशनो जलं व्याधिर्दुभिक्षं मरणं तथा । इति पञ्चविधं देवं मानुषं व्यसनं ततः ॥ आयुक्त के भ्यश्चौरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च नराणां पञ्चधा मतम् ||' इति ॥ ६०॥
अन्वयः --- सप्तसु अङ्गेषु, मे, शिवम्, उपपन्नम्, ननु, यस्य, मे, देवीनाम् मानुषीणाञ्च, आपदाम् त्वम्, प्रतिहर्ता, असि ।
वाच्य० - स्वया, प्रतिहर्षा, भूयते ।
व्याख्या--सप्तसु = सप्तसंख्यकेषु अङ्गेषु = स्वाम्यमात्य सुहुत्कोश राष्ट्रदुर्गबलरूपेषु राज्याङ्गेषु, मे = मम, शिवम् = कल्याणम्, उपपन्नम् = युक्तम्, ननु = निश्चितम्, यस्य = मे, मम दिलीपस्येत्यर्थः, देवेभ्यः = सुरेभ्यः आगताः प्राप्ताः देव्यः, तासां देवीनाम्, दुर्भिक्षादीनाम्, मनुष्येभ्यः = मानवेभ्यः आगताः मानुष्यः तासाम्, मानुषीणाम् = चौर्यादीनाम्, आपदाम् = आपत्तीनाम्, प्रतिहरति इति प्रतिहर्ता = निवारकः, त्वम् = वसिष्ठः, 'असि' ।