________________
रघुवंशमहाकाव्ये ___समा०--देवेभ्यः आगताः देव्यः, तासाम्, देवीनाम् । मनुष्येभ्यः आगताः, मानुष्यः, तासाम् मानुषीणाम् । प्रतिहरति इति प्रतिहर्ता। ___अभि०-स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलरूपेषु राज्याङ्गेषु मे कुशलमेव, यतः मे दैवीनां मानुषीणां च विपत्तीनां त्वं निवारको विद्यसे ।
हिन्दी-मेरे, स्वामी अमात्य सुहृत् कोश राष्ट्र, दुर्ग तथा बल रूप राज्य के सातों अङ्गों में कुशल ही है, क्योंकि मेरी देवी तथा मानुषी दोनों प्रकार की विपत्तियों के दूर करनेवाले आप स्वयं विद्यमान हैं। ___तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्य भिदः शराः ॥ ६१ ॥ सञ्जीविनी--दूरात्परोक्ष एव प्रशमितारिभिः। मन्त्रान्कृतवान्मन्त्रकृत् । 'सुकर्मपापमन्त्रपुण्येषु कृञः' इति क्विप् । तस्य मन्त्रकृतो मन्त्राणां स्रष्टुः प्रयोक्तुर्वा तव मन्त्रैः कर्तृभिः दृष्टं प्रत्यक्षं यल्लक्ष्यं तन्मात्रं भिन्दन्तीति दृष्टलक्ष्यभिदो मे शराः प्रत्यादिश्यन्त इव । वयमेव समर्थाः किमेभिः पिष्ट पेषकैरिति निराक्रियन्त इवेत्युत्प्रेक्षा । 'प्रत्यादेशो निराकृतिः' इत्यमरः । त्वन्मन्त्रसामर्थ्यादेव नः पौरुषं फलतीति भावः ।
अन्वयः-दूरात्, प्रशमितारिभिः, मन्त्रकृतः, तव, मन्त्रः, दृष्टलक्ष्य भिवः, मे, शरा, प्रत्यादिश्यन्ते, इव।
वाच्य०--प्रशमितारयः, मन्त्राः, शरान्, प्रत्यादिशन्ति ।
व्याख्या-दूरात् =विप्रकृष्टदेशात् परोक्ष इत्यर्थः, प्रकर्षण शमिता:शान्ताः इति प्रशमिताः, प्रशमिताः अरयः= शत्रवः, इति प्रशमितारयः तैः तथोक्तः, मन्त्रान् = जप्यान्, कृतवान् = सृष्टवान्, प्रयुक्तवान्, वा मन्त्र कृत् तस्य मन्त्रकृतः, तव= वसिष्ठस्य, मन्त्रः= जप्यः, दृष्टम् = अवलोकितम्, च तत् लक्ष्यम् =शरव्यम् इति दृष्टलक्ष्यम्, दृष्टलक्ष्यं भिन्दति =विदारयन्ति, इति दृष्टलक्ष्यभिदः, मे= मम दिलीपस्य, शरा:= बाणाः, प्रत्यादिश्यन्ते=निराक्रियन्ते, इव = यथेत्युत्प्रेक्षा।
समा०--प्रकर्षण शमिताः इति प्रशमिताः, प्रशमिताः अरयः यः ते शमितारयः, तैः प्रशमितारिभिः । मन्त्रान्, कृतवान्, इति मन्त्रकृत्, तस्य मन्त्रकृतः। दृष्टम् च तत् लक्ष्यम् इति दृष्टलक्ष्यम्, दृष्टलक्ष्यं भिन्दन्ति इति दृष्टलक्ष्यभिदः ।