________________
।
प्रयमा सर्गः
अभि०--हे गुरो, भवान् स्वमन्त्रप्रयोगैः परोक्ष एव मम शत्रून्विनाशयति । मम बाणास्तु तेषु पिष्टपेषणन्यायेन व्यर्था इव भवन्ति । यतस्ते प्रत्यक्षमैव शत्रूविनाशयन्ति ।
हिन्दी--हे गुरो, आप अपने मन्त्रों के सामथ्यं से पहले ही परोक्ष में मेरे शत्रुओं का विनाश कर देते हैं, अतः मेरे बाण तो प्रत्यक्ष में ही शत्रुओं का विनाश करने के कारण व्यर्थ से प्रतीत होते हैं ॥६१॥
हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥ ६२॥ सञ्जीविनी--हे होतः ! त्वया विधिवदग्निष्वावजितं प्रक्षिप्तं हविराज्यादिकं कर्तृ । अवग्रहो वर्षप्रतिबन्धः । 'अवे ग्रहो वर्षप्रतिबन्धे' इत्यञ्प्रत्ययः । 'वृष्टिवषं तद्विघातेऽवग्राहावग्रही समो' इत्यमरः। तेन विशोषिणां विशुष्यतां सस्यानां वृष्टिर्भवति । वृष्टिरूपेण सस्यान्युपजीवयतीति भावः। अत्र मनुः 'अग्नौ दत्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिवष्टेरन्नं ततः प्रजाः॥ इति ॥६२॥ ___ अन्वयः-हे, होतः, त्वया, विधिवत्, अग्निषु, आवजितम्, हविः, अवग्रहविशोषिणाम, सस्यानाम्, वृष्टिः, भवति ।
वाच्य०--आवजितेन, हविषा, वृष्ट्या , भूयते ।
व्याख्या हे होतः = अग्निहोत्रिन्, त्वया वसिष्ठेन, विधिवत् = यथाशास्त्रम्, अग्निषु = वह्निषु, आवर्जितम् = तर्पितम्, हविः= हवनीयं द्रव्यम्, अवनहणम् = वृष्टिविघातः, एव अवग्रहः, अवग्रहेण विशोषिणः इति अवग्रहविशोषिणः, तेषाम् अवग्रहविशोषिणाम, सस्यानाम् = धान्यानाम्, वृष्टिः = वर्षणम् भवति = जायते ।
समा० - अवग्रहेण विशोषिणः इति अवग्रहविशोषिणः, तेषाम् अवग्रहविशोषिणाम् ।
अभि०-हे हवनकर्तः, यत्त्वमग्नौ विधिवज्जुहोषि तदेव वृष्टिप्रतिबन्धविनाशकं सस्यानां कृते वृष्टिरूपं जायते ।
हिन्दी-हे हवन करने वाले, गुरो! आप जो विधिपूर्वक अग्नि में आहुति डालते हैं वह ही धानों के लिये अकाल को दूर करनेवाली वृष्टिरूप हो जाती है।