________________
रघुवंशमहाकाव्ये पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ।। ६३ ।। सञ्जीविनी--आयुर्जीवितकालः । पुरुषस्यायुः पुरुषायुषम् । वर्षशतमित्यर्थः। "शतायुर्वं पुरुषः' इति श्रुतेः । 'अचतुरविचतुरसुचतुर.' इत्यादिसूत्रेणाच्प्रत्ययान्तो निपातः । -मदीयाः प्रजाः पुरुषायुवं जीवन्तीति पुरुषायुषजीविन्यः । निरातङ्का निर्भयाः। 'आतङ्को भयमाशङ्का' इति हलायुवः । निरीतयोऽतिवृष्टयादिरहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः। 'व्रताध्ययनसंपत्तिरित्येतद्ब्रह्मवर्चसम्' इति हलायुधः। ब्रह्मणो वर्णो ब्रह्मवर्चसम् । 'ब्रह्महस्तिभ्यां वर्चसः' इत्यच्प्रत्ययः। 'अतिवृष्टिरनावृष्टिमूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥' इति कामन्दकः ।।६३।।।
अन्वयः-मदीयाः, प्रजाः, पुरुषायुषजीविन्यः, निरातङ्काः, निरीतयः, यत्' 'सन्ति' तस्य, त्वब्रह्मवर्चसम्, 'एव', हेतुः ।
वाच्य-मदीयाभिः, प्रजाभिः पुरुषायुषजीविनीभिः निरातङ्काभिः निरीतिभिः, 'यत् भूयते' तस्य, त्वब्रह्मवर्चसेन, एव हेतुना, 'भूयते'। ____ व्याख्या--मम = दिलीपस्य, इमाः=संबन्धिन्यः, इति, मदीयाः, प्रकर्षण जायन्ते = भवन्ति, इति, प्रजाः= जनाः, पुरुषस्य = मनुष्यस्य, आयुः= वयः, इति पुरुषायुधम् पुरुषायुषं जीवितुं प्राणान् धारयितुं शीलं यासां ताः, पुरुषायुषजीविन्या, निर्गतः=निर्यातः, आतङ्कः = भयं याभ्यः, ताः, निर्गता:=निष्क्रान्ताः ईतिभ्यः = अतिवृष्टयादिषडुपद्रवेभ्यः, इति निरीतयः, 'यत् सन्ति', तस्य = सर्वस्य, ब्रह्मणः= व्रताध्ययनादेः, वर्चः = संपत्तिः, ब्रह्मवर्चसम्, तव = वशिष्टस्य ब्रह्मवर्चसम् त्वद्ब्रह्मवर्चसम्, हेतु:=कारणम्, 'अस्ति' ।
समा० --मम इमाः मदीयाः। प्रकर्षेण जायन्ते इति प्रजाः । पुरुषस्य आयुः इति पुरुषायुषम् । पुरुषायुषं जीवितुं शीलं यासां ताः पुरुषायुषजीविन्यः । निर्गतः आतङ्कः याभ्यः ताः निरातङ्काः । निर्गताः ईतिभ्यः इति निरीतयः। ब्रह्मणः वर्चः इति ब्रह्मवर्चसम्, तव ब्रह्मवर्चसम् इति त्वद्ब्रह्मवर्चसम्।। ___अमि०-हे गुरो! यत् मदीयाः प्रजाः शतवर्षजीविन्यः, निर्भयाः अतिवृष्टघाद्युपद्रव शून्याश्च सन्ति तत्र तवैव ब्रताध्ययनसंपत्तिहेतुर्नान्यः ।