________________
प्रवमा सर्गः
हिन्दी हे गुरो ! मेरा प्रजावर्ग जो सो वरस तक जीनेवाला, निर्भय एवं अतिवृष्टि आदि उपद्रवों से रहित है, उसमें आपका व्रत, वेदपाठ आदि ही कारण है ॥६३॥
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना।
सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥ ६४ ॥ सञ्जीविनी-ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वयैवमुक्तप्रकारेण चिन्त्यमानस्यानुध्यायमानस्य । अतएव निरापदो व्यसनहीनस्य मे सम्पदः सानुबन्धाः सानुस्यूतयः । अविच्छिन्ना इति यावत् । कथं न स्युः । स्युरेवेत्पर्षः।
अन्वयः-ब्रह्मयोनिना, गुरुणा, त्वया, एवम्, चिन्त्यमानस्य, 'अत एवं' निरापदः, मे, सम्पदः, सानुबन्धाः, कपम्, न, स्थः।
बाच्य०-सम्पद्भिः, सानुबन्धाभिः कथम् न भूयेत ।
व्याल्या--ब्रह्मा= विधाता, योनिः= कारणम्, यस्य स ब्रह्मयोनिः, तेन ब्रह्मयोनिना, गुरुणा=आचार्यण, त्वया = वशिष्ठेन, एवम् = इत्थम्, चिन्यतेविचार्यते, इति चिन्त्यमानः, तस्य चिन्त्यमानस्य 'अत एव' निष्कामतः=निर्गतः, आपद्भपा=विपत्तिभ्यः, इति निरापद् तस्य निरापदः, मे= मम, दिलीपस्य, सम्पदा= सम्पत्तयः, अनुबन्धः = प्रकृतानुवर्तनः, सह वर्तमानाः सानुबन्धाः, अविच्छिन्ना इत्यर्थः, कथम् = केन प्रकारेण, न--नैव, स्युः= भवेयुः, अपितु स्युरेव ।
समा०- ब्रह्मा योनिः यस्य सः ब्रह्मयोनिः, तेन, ब्रह्मयोनिना। चिन्स्यते इति चिन्त्यमाना तस्य चिन्त्यमानस्य । निर्गतः आपद्भयः इति निरापद् तस्य, निरापदः । अनुबन्धः सह वर्तमानाः सानुबन्धा।।
अभिल--हे गुरो! ब्रह्मपुत्र ! यदा भवान् मामेवं स्मरति तदा मे संपत्तयोऽविच्छिन्ना। कथं न स्युः ?
हिन्दी-हे ब्रह्मपुत्र, जब कि इस प्रकार आप मेरा स्मरण करते हैं तो मेरी सम्पत्तियां सर्वदा स्थिर क्यों न रहेंगी ॥६४॥
किंतु वध्वा तवैतस्यामदृष्टसदृशप्रजम् ।
न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥ ६५॥ सम्जीविनी-किंतु तव॑तस्यां वध्वां स्नुषायाम् । 'वधूर्जाया स्नुषा ई' इत्यमरः । अदृष्टा सदृश्यनुरूपा प्रजा येन तं मां सदीपापि । रत्नानि सूयत इति