________________
रघुवंशमहाकाव्ये रत्नसूरपि । 'सत्सूद्विषः' इत्यादिना क्विप् । मेदिनी नावति न प्रीणाति । अवधातू रक्षणगतिप्रीत्याद्यर्थेषपदेशादत्र प्रीणने । रत्नसूरपीत्यनेन सर्वरत्नेभ्यः पुत्र. रत्नमेव श्लाध्यमिति सूचितम् ॥६५॥
अन्वया-किंतु, तव, एतस्याम्, वध्वाम्, अदृष्टसदृशप्रजम्, माम, सद्वीपा, रत्नमः, अपि, मेदनी, न, अवति। . वाच्य-अदृष्टसदशप्रजः अहम सद्वीपया रत्नसुवा अपि मेदिन्या, अव्ये।
व्याख्या---किन्तु तथात्वेऽपि, तववसिष्ठस्य, एतस्याम् = अमुष्याम्, वध्वाम् = स्नुषायाम, प्रकर्षेण जायत इति प्रजा= संततिः, न दृष्टा = आलोकिता, इति अदृष्टा, अदृष्टा सदृशी= तुल्या,प्रजा येन स अदष्टसदशप्रजः,तम् अदृष्टसदृशप्रजम्, माम् = दिलीपम्, द्वीपः= भूखण्डविशेषः सह वर्तमाना सद्वीपा, रत्नानि =होरकादीनि, सूयते = उत्पादयति, इति रत्नसू, अपि, मेदिनी = पृथ्वी, न%=नैव, अवति =श्रीगाति ।
समान दृष्टा अदृष्टा, अदृष्टा सदृशी प्रजा येन सः अदृष्टसदृशप्रजः, तम् अदृष्टसदृशप्रजम् । द्वीपः सह, वर्तमाना सद्वीपा। रत्नानि सूयते, या सा रत्नसूः ।
अभिल--हे गुरो ! भवत्कृपयाऽविच्छिन्नसंपत्तिमत्त्वेऽपि मम सुदक्षिणायां पुत्राभावेन अखण्डमपि साम्राज्यं न संतोषाय भवति ।
हिन्दी-हे गुरों! यद्यपि आप की कृपा से मेरो समस्त सम्पत्तियाँ अविच्छिन्न हैं तथापि आपकी इस शिष्य-वधू सुदक्षिणा से स्वसदृश पुत्र न पाकर समस्त रत्नों को उत्पन्न करने वाली भी यह पृथ्वी मुझे संतुष्ट नहीं करती है। तदेव प्रतिपादयति
नूनं मत्तः परं वंश्याः पिरडविच्छेददर्शिनः।
न प्रकामभुजः श्राद्धं स्वधासंग्रहतत्पराः॥६६॥ सञ्जीविनी-मत्तः परं मदनन्तरम् 'पञ्चम्यास्तसिल' पिण्डविच्छेदर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः । वंशोद्भवा वश्याः पितरः । स्वधेत्यव्ययं पितृभोज्ये वर्तते । तस्याः संग्रहे तत्परा आसक्ताः सन्तः श्राद्धे पितृकर्मणि । 'पितृदानं निवापः स्याच्छाद्धं तत्कर्म शास्त्रतः' इत्यमरः । प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम् । 'कामं प्रकामं पर्याप्तम्' इत्यमरः । निर्धना ह्यापद्धनं कियदपि संगृह्णातीति भावः ॥६६॥