________________
प्रथमः सर्गः
अन्वयः--मत्तः, परम्, पिण्डविच्छेदशिनः, वंश्याः, स्वधासंग्रहतत्पराः, 'सन्तः', श्रावे, प्रकामभुज', नूनम्, न, 'भवन्ति ।
वाच्य०--पिण्डविच्छेददर्शिभिः वश्यः स्वधासंग्रहतत्परः न प्रकामभुग्भिः भूयते ।
व्याख्या--मत्तः= मत्सकाशात्, परम् = अनन्तरम्, पिण्डस्य, विच्छेदः% ध्वंसः इति पिण्डविच्छेदः, पिण्डविच्छेदं द्रष्टम् = अवलोकितं शीलं येषान्ते पिण्डविच्छेदर्शिनः, वंशे = कुले शवा वंश्या:, पितर इत्यर्थः । स्वधाया=पितृभोज्यस्य, सङग्रहः= आदानम्, इति स्वधासंङग्रहः स्वधासंग्रह तत्परा:= लग्नाः इति स्वधासंग्रहतत्पराः, 'सन्त' श्राद्ध =पितृकार्ये, प्रकामम् = अत्यन्तं पर्याप्तमित्यर्थः । भुंजन्ति = खादन्ति इति प्रकामभुजः, नूनम् = निश्चयेन, न भवन्ति ।
समा०-पिण्डस्य विच्छेदः पिण्डविच्छेदः, पिण्डविच्छेदं द्रष्टुं शीलं येषां ते पिण्डविच्छेदशिनः । वंशे भवाः वंश्याः । स्वधायाः संग्रहः इति स्वधासंग्रहः, तस्मिन् तत्पराः स्वधासंग्रहतत्पराः । प्रकामम् भुञ्जन्ति इति प्रकामभजः ।
अभि०-पुत्राभावान्मदनन्तरं पिण्डविच्छेदं विचारयन्तो मत्पितरः स्वधासंग्रहसंलग्नाः पर्याप्तं न खादन्ति ।
हिन्दी-मेरे अनन्तर पुत्र के अभाव में पिण्ड के लोप का विचार करके मेरे पूर्वज श्राद्धके अवसर पर अवश्य ही तृप्त होकर भोजन नहीं करते होंगे।६६।
___ मत्परं दुर्लभं मत्वा नूनमावर्जितं मया। ___ पयः पूर्वैः स्वनिश्वासैः कवोष्णमुपभुज्यते ॥६७॥
सञ्जीविनी-मत्परं मदनन्तरम् । 'अन्यारादितरर्तेदिकशब्दाञ्चूत्तरपदाजाहियुक्ते' इत्यनेन पञ्चमी। दुर्लभं दुर्लभ्यं मत्वा मयावजितं मद्दत्तं पयः पूर्वेः पितृभिः स्वनिःश्वासर्दुखजः कवोष्णमीषदुष्णं यथा तथोपभुज्यते। नूनमिति तर्के । कवोष्णमिति कुशब्दस्य कवादेशः। 'कोष्णं कवोष्णं मंदोष्णं कदुष्णं त्रिषु तद्वति' इत्यमरः ॥६७॥
अन्वयः--मत्सरम्, दुर्लभम्, मत्वा, 'इदानीम्' मया, आजितम्, पयः, पूर्वः स्वनिश्वासैः कवोष्णम्, 'यथा तथा', उपभुज्यते, नूनम् ।
वाच्य०--पूर्वे, कवीण्णम्, उपभुञ्जते ।