________________
रघुवंशमहाकाव्ये व्याख्या-मत्तः= मत्सकाशात्, परम् = अने, दुर्लभम् = दुष्प्रापम्, मत्वा = ज्ञात्वा, 'इदानीम्', मया = दिलीपेन, आवजितम् = दत्तम् , पयः=जलम्, पूर्वः = पूर्वजैः, स्वस्य = आत्मनः, निःश्वासाः-मुख मारुताः, इति स्वनिःश्वासाः तैः स्वनिश्वासा, कवोष्णम् = ईषदुष्णम्, यथा तथा उपभुज्यते = पीयते,नूनम् = निश्चयेन । ___ समा०--मत्तः परम् इति मत्परम् । स्वस्य निश्वासाः इति स्वनिश्वासाः, तैः स्वनिश्वास।। ___ अभि०-मदनन्तरं पुत्राभावादिदानी मद्दत्तं वारि पितृजननिजदुःखनिश्वासरीषदुष्णीकृतं पीयतेऽत्र न सन्देहः ।
हिन्दी--मेरे पश्चात् पुत्र के न होने से आज-कल मेरे दिये जल को मेरे पितुजन अपने दुःख के श्वासों से कुछ गर्म करके पीते हैं। इसमें कोई सन्देह नहीं है ।। ६७॥
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥ ६॥ सञ्जीविनी-इज्या यागः । "वजयजो वे क्यप्' इति क्यप्प्रत्ययः । तया विशुद्धात्मा विशुद्धचेतनः। प्रजालोपेन संतत्यभावेन निमीलितः कृतनिमीलनः सोऽहम् । लोक्यत इति लोकः । नलोक्यत इत्यलोकः लोकरचालोकश्चात्रस्त इति, लोकश्चासावलोकश्चेति वा 'लोकालोकश्चक्रवालः' इत्यमरः । प्रकाशत इति प्रकाशश्च देवर्णविमोचनात् । न प्रकाशत इत्यप्रकाशश्च पितणामृणाविमोचनात् । पचाद्यच् । अस्मीति शेषः । लोकालोकोऽप्यन्तः सूर्यसंपर्काहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम् ॥६॥ ___ मन्वयः-इज्याविशुद्धात्मा, प्रजालोपनिमीलितः, अहम्, लोकालोकः, अचला, इव, प्रकाशः, अप्रकाशः, च, अस्मि ।
वाच्य-इज्याविशुद्धात्मना, प्रजालोपनिमीलितेन, 'मया' लोकालोकेन, अचलेन, प्रकाशेन, अप्रकाशन, च, भूयते।
व्याख्या--इज्या= यज्ञकरणम्, इज्यया विशुद्धः = पूतः, आत्मा=स्वम्, यस्य सः, इज्याविशुद्धात्मा, प्रकर्षण. जायते भवति, इति प्रजा= संततिः, प्रजायाः लोपः= अभावः इति प्रजालोपा, प्रजालोपेन निमीलितः= कृतनिमीलनः, इति प्रजालोपनिमीलितः अहम् =दिलीपः,लोक्यते-दृश्यते इति लोकः, न लोक्यते