________________
प्रथमः सर्गः
= दृश्यत इति, अलोकः, लोकश्चासावलोकश्च इति लोकालोकः, अचल:=पर्वतः, इव= यथा, प्रकाशते= द्योतते इति प्रकाश: देवर्णविमोचनात्, न प्रकाशते इत्यप्रकाशः पितृऋणविमोचनाभावात्, च =तथा, अस्मि = भवामि।
समा०-इज्यया विशुद्धः आत्मा यस्य सः इज्याविशुद्वात्मा। प्रजायाः लोपः प्रजालोपः तेन निमीलिता इति प्रजालोपनिमीलितः। लोक्यते, इति लोकः, न लोक्यते इति अलोकः, लोकश्चासावलोकश्च इति लोकालोकः । प्रकाशते इति प्रकाशः । न प्रकाशते इति अप्रकाशः ।
अभि०--यज्ञादिना देवर्णविमोचनात्प्रसन्नचेतास्तथा पुत्राभावेन पितृऋणाविमोचनान्मलिनचेताश्चाहं लोकालोकपर्वत इव भवामि ।
हिन्दी-यज्ञ आदि से मैं देवऋण से मुक्त होने के कारण प्रसन्नचित्त, तथा पुत्र के अभाव से पितऋण से मुक्त न होने के कारण मलिनचित्त हूँ, अत: मेरी स्थिति लोकालोक पर्वत के समान है, जिसके एक ओर प्रकाश तथा दूसरी ओर अँधेरा रहता है ॥६॥ ननु तपोदानादिसंपन्नस्य किमपत्य रित्याह--
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
संततिः शुद्धवंश्या हि परत्रेह च शमणे ॥६॥ सञ्जीविनी--समुद्भवत्यस्मादिति समुद्भवः कारणम् । तपोदाने समुद्भवो यस्य तत्तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम् । शुदक्शे भवा शुद्धवंश्या संततिहि परत्र परलोके, इह च लोके शर्मणे सुखाय । 'शर्मशातसुखानि च' इत्यमरः । भवतीति शेषः ॥६६॥
अन्वयः-तपोदानसमुद्भवम्, पुण्यम्, लोकान्तरसुखम्, 'भवति' । हि शुद्धवंश्या, सन्ततिा, इह, परत्र, च, शर्मणे, भवति ।
वाच्य०--तपोदानसमुद्भवेन, पुण्येन, लोकान्तरसुखेन, 'भूयते', शुद्धवंश्यया, सन्तत्या, शर्मणे, भूयते ।
व्याख्या-तपः= तपश्चर्या कृच्छचान्द्रावतादीत्यर्थः,तच्च, दानम् =त्यागः च तपोदाने, समुद्भवति = उत्पद्यतेऽस्मादिति समुद्भवः, तपोदाने समुद्भवो यस्य तत् तपोदानसमुद्भवम्, पुण्यम् = सुकृतम्, अन्यः = अपरः, लोकः = भुवनम्, इति लोकान्तरम्, लोकान्तरे, सुखम् = सुखकरम् इति लोकान्तरसुखम्, 'भवति', हि=