________________
रघुवंश महाकाव्ये
यतः, शुद्धः = पवित्रः च असौ वंशः = कुलम् इति शुद्धवंशः, शुद्धवंशे भवा-शुद्धवंश्या सुवंशोत्पन्नेत्यर्थः, सन्ततिः = प्रजा, परत्र = परलोके, इह = अस्मिँल्लोके च शर्मणेः = कल्याणाय, भवति ।
७०
समा० -- तपश्च तत् दानञ्च इति तपोदाने तपोदाने समुद्भवो यस्य तत् तपोदानसमुद्भवम् । अन्यः लोकः इति लोकान्तरम्, लोकान्तरे सुखम् इति लोकान्तरसुखम् । शुद्धश्चासी वंशः इति शुद्धवंशः तस्मिन् भवा इति शुद्धवंश्या ।
अभि० -- यत्पुण्यं तपसा दानेन च सम्पद्यते तत्केवलं परलोकसुखावहमेव भवति किन्तु शुद्धवंशोत्पन्नः पुत्रस्तु परलोकेऽस्मिल्लोके च सुखावहो भवति ।
हिन्दी -- जो पुण्य तप अथवा दान से उत्पन्न होता है वह केवल परलोक में ही सुख देता है, किन्तु शुद्ध वंश में उत्पन्न पुत्र तो इस लोक में तथा परलोक में भी सुख पहुँचाता है ॥ ६९ ॥
तया हीनं विधात कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥७०॥
सञ्जीविनी - हे विधातः ! स्रष्टः ! तया संतत्या हीनमनपत्यं माम् । स्नेहात्प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं वन्ध्यमफलम् | 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः । आश्रमस्य वृक्षकं वृक्षपोतमिव पश्यन्कथं न दूयसे न परितप्यसे । विघातरित्यनेन समर्थोऽप्युपेक्षस इति गम्यते ॥७०॥
अन्वयः - हे विधातः, तया, हीनम्, माम्, स्नेहात् स्वयम् एव, सिक्तम्, वन्ध्यम्, आश्रमवृक्षकम्, इव, पश्यन् कथम्, न, दूयसे ।
वाच्य० -- पश्यता, त्वया, कथम्, न, दूयते ।
=
व्याख्या - हे विधातः = स्रष्टः, तया = सन्तत्या, हीनम् = रहितम्, माम् = दिलीपम्, स्नेहात् = प्रेम्णा, स्वयम् = आत्मना, एव निश्चयेन, सिक्तम् = जलसेकेन वर्षितम्, वन्ध्यम् = निष्फलम् ह्रस्वः, वृक्ष), वृक्षकः = तरुपोत:, अश्वमस्य = मुन्यावासस्य वृक्षकः इति आश्रमवृक्षकः तम् आश्रमवृक्षकम्, इव = यथा, पश्यन् = अवलोकयन्, कथम् = केन प्रकारेण, न = = नहि, दूयसे = परितप्यसे ।
समा०- -ह्रस्वः वृक्षः वृक्षकः, आश्रमस्य वृक्षकः इति आश्रमवृक्षकः तम् आश्र
मवक्षकम् ।