________________
७१
प्रथमा सर्गः अभि०-हे विषातः, यथा जलसेकेन संवर्धितो वृक्षः फलरहितश्चेत्स्यात्तहि शोचनीयो भवति तथैव स्वकृपासंवर्धितमपि मां पुत्रहीनं दृष्ट्वा भवान् कथं न दुःखी भवति ?
हिन्दी--हे गुरो--जिस प्रकार जल से सींचकर बढ़ाये हुए वृक्ष को फलशून्य देखकर दुःखी होना उचित है उसी प्रकार स्वयं स्नेह पूर्वक बढ़ाये हुए मुझको भी पुत्र रहित देखकर आप दुःखी क्यों नहीं होते ? ॥७०॥
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥७॥ सञ्जीविनी--हे भगवन् ! ममान्त्यमणं पैतृकमृणम् । अनिर्वाणस्य मज्जनरहितस्य । 'निर्वाणं निर्वती मोक्षे विनाशे गजमज्जने' इति यादवः। दन्तिनो गजस्य । अरुमम तुदतीत्वरंतुदं मर्मस्पृक् । 'व्रणोऽस्त्रियामीर्ममरः' इति, 'अरुंतुदं तु मर्मस्पक' इति, चामरः। 'विध्वरुषोस्तुदः' इति खश्प्रत्ययः। 'अरुर्विषत्-' इत्यादिना मुमागमः । आलानं बन्धनस्तम्भमिव । 'आलानं बन्धनस्तम्भे' इत्यमरः । असह्या सोढ़मशक्या पीडा दु:खं यस्मिस्तदवेहि। दुःसहदुःखजनकं विद्धीत्यर्थः । '
निर्वाणोस्थानशयनानि त्रीणि गजकर्माणि' इति पालकाप्ये । 'ऋणं देवस्य यागेन ऋषीणां दानकर्मणा । संतत्या पितृलोकानां शोधयित्वा परिव्रजेत् ॥७॥
अन्वयः- हे भगवन, मे, अन्त्यम्, ऋणम्, अनिर्वाणस्य, दन्तिनः, अन्तुदम, आलानम्, इव, असह्मपीडम्, अवेहि।
वाच्य-त्वया, अवेयताम् ।।
व्याख्या-हे भगवन् = षडैश्वर्यशालिन, मे= मम दिलीपस्य, अन्ते =अव. साने भवम् अन्त्यम्, ऋणम् =पैतृकमणम्, न विद्यते निर्वाणम् = गजमज्जनं यस्य सः, अनिर्वाणः, तस्य अनिर्वाणस्य, दन्तिनः= गजस्य, अरुः%D मर्मस्थानम्, तुदति %=3 पीव्यति इति अरुन्तुदम् तत् आलानम् = गजबन्धनस्तम्भम्, इव= यथा, सोढम् = सहनं कर्तुं योग्या सह्या न सह्या असह्या असह्या, पीडा व्यथा यस्मिस्तत् असह्यपीडम् तत्तथोक्तम् अवेहि =विद्धि ।
समा०-अन्ते भवम् अन्त्यम् । न विद्यते निर्वाणं यस्य सः अनिर्वाणः, तस्य अनिर्वाणस्य । अरुः तुदति इति अरुन्तुदम् । सोढुं योग्या सह्या न सह्या अस ह्या असह्या, पीड़ा यस्मिन् तत् असह्मपीडम् ।