________________
रघुवंश महाकाव्ये
समा०- - अविद्यमाना तिथिः यस्य आगमने स अतिथिः, अतिथये इदम् अतिथ्यम्, आतिथ्यस्य क्रिया आतिथ्यक्रिया, तया शान्तः इति आतिथ्यक्रियाशान्तः, रथस्य क्षोभः इति रथक्षोभः, रक्षक्षोभेण परिश्रमः रथक्षोभपरिश्रमः, आतिथ्य - क्रियाशान्तः रथक्षोभपरिश्रमः यस्य सः आतिथ्य क्रियाशान्तरथक्षोभ परिश्रमः । राज्ञः भावः कर्म वा राज्यम्, राज्यम् एव आश्रम इति राज्याश्रमः, राज्याश्रमे मुनिः इति, राज्याश्रममुनिः तम् राज्याश्रममुनिम् ।
अभि० -- वसिष्ठो दिलीपस्य रथसंचलनखेदमातिथ्य क्रियया दूरीकृत्य तं
६०
राज्यं कुशलं पृष्टवान् ।
हिन्दी -- वसिष्ठजी ने दिलीप के रथ के हिलने-डुलने से उत्पन्न खेद को आतिथ्य सत्कार से दूर किया और राज्य सम्बन्धी कुशल पूछा ॥५८॥ थाथर्वनिधेस्तस्य विजितारिपुरः पुरः । अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥ ५६ ॥
THE
सञ्जीविनी - अथ प्रश्नानन्तरं विजितारिपुरी विजितशत्रुनगरो वदतां वक्तृणां वरः श्रेष्ठः 'यतश्च निर्धारणम्' इति षष्ठी । अर्थपती राजाथर्ववेदस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थादनपेताम् | 'धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः । वाचमाददे | वक्तुमुपक्रान्तवानित्यर्थः । अथर्वनिधेरित्यनेन पुरोहितकृत्याभिज्ञत्वातत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते । यथाह कामन्दकः -- ' त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् ॥' इति ॥ अन्वयः - अथ, विजितारिपुरः, वदताम् वरः, अर्थपतिः, अथर्वनिषे:, तस्थ, पुरः, अर्थ्याम्, वाचम्, आदवे |
आददे ।
1
वाच्य० - विजितारिपुरेण, वदताम् वरेण, अर्थपतिना, अर्ध्या वाक्, व्याख्या - अथ = कुशलप्रश्नानन्तरम्, अरीणाम् = शत्रूणाम्, पुराणि नगराणि इति अरिपुराणि विजितानि = स्वायत्तीकृतानि अरिपुराणि येन सः विजितारिपुरः, वदताम् = वक्तृणाम्, वरः = श्रेष्ठः अर्थस्य = विभवस्य, पतिः : स्वामी अर्थपतिः, अथर्वणः == अथर्ववेदस्य, निधिः = आकरः, इति अथर्वनिधिः तस्य अथर्वनिधेः, तस्य = वसिष्ठस्य, पुरा = अग्रे, अर्थादनपेता अर्ध्या = अर्थोपेता, ताम्, अर्थ्याम्, वाचम् = वाणीम्, आददे = जगृहे ।