________________
प्रथमः सर्गः
५९
हिन्दी -- सुदक्षिणा और दिलीप ने गुरु वसिष्ठ और गुरुपत्नी को नमस्कार किया। तब उन्होंने भी उन दोनों राजा-रानी को प्रेम पूर्वक आशीर्वाद दिया ।।५७।। तमातिथ्य क्रियाशान्तरथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ ५८ ॥
सञ्जीविनी -- मुनि: । अतिथ्यर्थमातिथ्यम् । 'अतिथेः' इति ञ्यप्रत्ययः ॥ आतिथ्यस्य क्रिया तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम् । राज्यमेवाश्रमस्तत्र मुनितुल्यमित्यर्थ । । तं दिली राज्ये कुशलं पप्रच्छ । पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम् । यद्यपि राज्यशब्दः पुरोहितादिष्वन्तर्गत्वाद्राजकर्मवचनः तथाप्यत्र सप्ताङ्गवचनः । ' उपपन्नं ननु शिवं सप्तस्वङ्गेषु' इत्युत्तरविरोधात्, तथाह मनुः - 'स्वाम्यमात्यपुरं राष्ट्रं कोशदण्डौ तथा सुहृत् । सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते ' ॥ इति । तत्र 'ब्राह्मणं कुशलं पृच्छेत्क्षत्र बन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ।।' इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाद् ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम् । अत एवोक्तम् - राज्याश्रममुनिमिति ॥ ५८ ॥ |
7
अन्वयः -- मुनिः आतिथ्य क्रियाशान्तरक्षोभपरिश्रमम्, राज्याश्रममुनिम् तम्, राज्ये, कुशलम्, पप्रच्छ ।
0
वाच्य० – मुनिना, आतिथ्य क्रियाशान्त रथक्षोभ परिश्रमः, राज्याश्रममुनिः, स पप्रच्छे ।
न
व्याख्या - मन्ता = वेदशास्त्रार्थतत्त्वागन्ता, मुनिः, अभ्यागतः इत्यर्थः, विद्यमाना तिथिर्यस्यागमने सः अतिथि, अतिथये इदम् आतिथ्यम्, आतिथ्यस्य = अभ्यागतसत्कारस्य, क्रिया = कर्म इति आतिथ्यक्रिया, आतिथ्य क्रियया शान्तः = गतः इति आतिथ्यक्रियाशान्तः, रथस्य = स्यन्दनस्य, क्षोभः = संचलनम्, इति रथक्षोभः, रथक्षोभेण परिश्रमा = खेदः इति रश्रक्षोभपरिश्रम, आतिथ्य क्रियाशान्तः रथक्षोभपरिश्रम यस्य सः, आतिथ्य क्रियाशान्त रथक्षोभपरिश्रमः, तं तथोक्तम्, राज्ञः = नृपस्य भावः कर्म वा राज्यम् = राष्ट्रम्, राज्यमेवाश्रमः = मुन्यावासः, इति राज्याश्रमः, राज्याश्रमे मुनिः, इति राज्याश्रममुनिः तम् राज्याश्रममुनिम्, तम् = राजानम् दिलीपम्, राज्ये = राष्ट्रमण्डले, कुशलम् = क्षेमम्, पप्रच्छ = • अपच्छत् ।