________________
रघुवंशमहाकाव्ये समा०--सायं भवः सायंतनः तस्य सायन्तनस्य। तपसां निधिः तपोनिधिः तम् तपोनिधिम् । हविः भुनक्त्ति इति हविर्भुक्, तम् हविर्भुजम् ।
अभि-दिलीप: सायंकालिकविधेरनन्तरं स्वाहादेव्या समुपासितं वह्निमिव स्थितं स्वधर्मपन्योपसेवितं वसिष्ठं ददर्श ।
हिन्दी-राजा दिलीप ने सायंकालिक संध्यावन्दनादि के अनन्तर अपनी पत्नी अरुन्धती से सेवित वसिष्ठजी को बैठे हुए इस प्रकार देखा मानो अपनी पत्नी स्वाहा देवी से सेवित साक्षात् अग्निदेव हों॥५६॥
तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी।
तौ गुरुगुरुपत्नी च प्रीत्या प्रतिननन्दतुः॥५७॥ सञ्जीविनी-मागधी मगधराजपुत्री राजी सुदक्षिणा राजा च तयोररुन्धतीवसिष्ठयोः पादाजगहतुः। 'पादः पदङघ्रिश्चरणोऽस्त्रियाम्' इत्यमरः । पादग्रहणमभिवादनम् । गुरुपत्नी गुरुश्च कर्तारौ । सा च स च तो सुदक्षिणादिलीपो कर्मभूती। प्रीत्या हर्षेण प्रतिननन्दतुः । आशीर्वादादिभिः संभावयांचक्रतुरित्यर्थः ॥५७॥
अन्वयः--मागधी, राजी, राजा, च, तयोः, पादान्, जगृहतुः, गुरुपत्नी, गुरुः, च, तो, प्रोत्या, प्रतिननन्वतुः । __ वाच्य०--मागध्या, राज्या, राज्ञा, च, तयोः, पादाः, जगृहिरे, गुरुणा, गुरुपन्या, च प्रीत्या, ती, प्रतिनन्दाते ।
व्याख्या-मगधानाम् = देशविशेषाणाम्, राजा= नृपः, मागधः, मागधस्यापत्यं स्त्री मागधी, राज्ञी = महिषी सुदक्षिणा, राजा=नुपः, दिलीपश्च, सा= अरुन्धती, सः= वसिष्ठः, च, ती, तयोः, पादान् = चरणान्, जगृहतुः= पस्पृशतुः, गुरोः= वसिष्ठस्य, पत्नी% भार्या, गुरुपत्नी अरुन्धती इत्यर्थः, गुरुः= वसिष्ठः, च, प्रीत्या=प्रेम्णा, सा=सुदक्षिणा च, सः= दिलीपश्च, तो कमभूतो, प्रतिननन्दतुः =आशीर्वचनादिभिः सम्भावयाञ्चक्रतुः ।
समा०-मगधानां राजा मागषः, मागधस्यापत्यं स्त्री मागधी। गुरो, पत्नी गुरुपत्नी।
अभि.--सुदक्षिणा दिलीपश्च गुरुं वसिष्ठं गुरुपत्नीमरुन्धती च नमश्चक्रतुः । ततः सपत्नीको गुरुरपि ताभ्यामाशिषं ददो।