________________
प्रथमः सर्गः
५७
समा०-- सभासु साधवः, सभ्याः । अतिशयेन गुप्तानि गुप्ततमानि, गुप्ततमानि
इन्द्रियाणि येषां ते गुप्ततमेन्द्रियाः । भार्यया सहितः नयः एव चक्षुः, यस्य स नयचक्षुः, तस्मै नयचक्षुषे ।
सभार्यः तस्मै सभार्याय ।
,
अभि० -- वसिष्ठादेशे वाश्रमस्था मुनयो नीतिविदं, पूजाहं रक्षकं च सुदक्षिणासहितं दिलीपमपूजयन् ।
हिन्दी -- वसिष्ठजी की आज्ञा से आश्रम में स्थित जितेन्द्रिय मुनियों ने नीतिशास्त्रज्ञ, पूजा के योग्य एवं रक्षक सुदक्षिणा सहित राजादिलीप की पूजा की ॥५५॥ विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ||१६||
सञ्जीवनी- - स राजा सायंतनस्य सायंभवस्य । ' सायंचिरम् ०' इत्यादिना ट्युल्प्रत्ययः । विधेर्जपहोमाद्यनुष्ठानस्यान्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम् । कर्मणि क्तः । उपसर्गवशात्सकर्मकत्वम् । 'अन्वास्येनाम्' इत्यादि - वदुपपद्यते । तपोनिधि बलिष्ठम् । स्वाहया स्वाहादेव्या | 'अथाग्नायी स्वाहा 'च हुतभुप्रिया' इत्यमरः । अन्वासितं हविर्भुजमिव । ददर्श । 'समित्पुष्पकुशाग्न्यम्बुमुदन्नाक्षतपाणिकः । जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत् ॥' इत्यनुष्ठानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम् । अन्वासनं चात्र पतिव्रताधर्मत्वेनोक्तं न कर्माङ्गत्वेन । विधेरन्त इति कर्मणः समाप्त्यभिधानात् ॥
अन्वयः -- सः, सायन्तनस्य, विधेः, अन्ते, अरुन्धत्या, अन्वासितम्, तपोनिषिम् स्वाहया, अन्वासितम्, हविर्भुजम् इव, ददर्श ।
·
वाच्य० - तेन, अरुन्धत्या अन्वासितः, तपोनिधिः, स्वाहया अन्वासितः हविर्भु, इव, ददृशे ।
'
न्तनस्य,
व्याख्या - सः = दिलीपः, सायं भवः सायन्तनः = सायंकालिकः, तस्य, सायविधेः : : = अनुष्ठानस्य, अन्ते = अवसाने, अरुन्धत्या = तन्नाम्या स्वपत्न्या, अन्वासितम् = उपासितम्, तपसाम् = तपश्चर्याणाम्, निधिः = आकरः, इति, तपोनिधि), तम्, तपोनिधिम्, स्वाहया = स्वाहादेव्या 'अन्वासितम्' हविः = हवनीयं द्रव्यं भुनक्ति = खादति, इति हविर्भुक्, तं हविर्भुजम् इव = यथा, ददर्श = अपश्यत् ।