________________
रघुवंशमहाकाव्य वाच्य०-अथ, तेन, यन्तारम् 'त्वया', धुर्याः, विश्राम्यन्ताम्, इति, आदिश्य, सा, पत्नी, रथात्, अवारोह्यत, स्वयम्, च, अवतेरे ।
व्याख्या-अथ = आश्रमप्राप्त्यनन्तरम्, सः= दिलीपः, यच्छति इति यन्ता= सारथिः, तम्, यन्तारम्, धुरं वहन्तीति धुर्याः = अश्वाः, तान्, धुर्यान, विश्रामय%= विनीतश्रमान् कुरु,इति= इत्थम् आदिश्य = आज्ञाप्य, ताम् = पूर्वोक्ताम्,पत्नीम् = भार्याम्, सुदक्षिणाम् रथात् = स्यन्दनात्, अवारोहयत् = अवतारितवान्, 'स्वयम्' च अवततार = अवारुरोह ।
समा०-धुरं वहन्ति, इति धुर्याः, तान् धुर्यान् ।
अभि०-आश्रमप्राप्त्यनन्तरं राजा, अश्वपरिश्रमदूरीकरणे सारथिमाज्ञाप्य सुदक्षिणासहितो रथादवततार।
हिन्दी-आश्रम में पहुँच कर राजा सारथि को घोड़ों की थकान दूर करने का आदेश देते हुए सुदक्षिणा सहित रथ से उतरे ॥५४॥
तस्मै सभ्याः सभार्याय गोप्ने गुप्ततमेन्द्रियाः।
अहणामहंते चक्रुर्मुनयो नयचक्षुषे ॥ ५५ ॥ सजीविनी--सभायां साधवः सभ्याः। 'सभायां यः' इति यप्रत्ययः । गुप्ततमेन्द्रिया अत्यन्तनियमितेन्द्रिया मुनयः सभार्याय गोप्त्रे रक्षकाय। नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे । अत एवार्हते प्रशस्ताय । पूज्यायेत्यर्थः । 'अर्हःप्रशंसायाम्' इति शतप्रत्ययः । तस्मै राज्ञेऽहणां पूजां चक्रः । 'पूजा नमस्यापचितिः सपर्याचाहणाः समाः' इत्यमरः ॥५५॥ ___अन्वयः-सभ्याः, गुप्ततमेन्द्रियाः, मुनयः, सभार्याय, गोप्ने, नयचक्षुष, अर्हते, तस्मै, अर्हणाम् चक्रुः।।
वाच्य०-सभ्यः, गुप्ततमेन्द्रियः, मुनिभिः, अर्हणा, चक्रे।
व्याख्या-सभासु साधवः सभ्याः= सभासदा, अतिशयेन गुप्तानि गुप्ततमानि = दृढरक्षितानि, गुप्ततमानि इन्द्रियाणि = अक्षाणि, येषां ते गुप्ततमेन्द्रियाः, मुनयः= ऋषयः, भार्यया=पल्या सह वर्तमानः सभार्यः, तस्मै सभार्याय, सुदक्षिणासहिताय, गोत्रे = रक्षकाय, नयः% नीतिः एव चक्षुः नेत्रं यस्य स नयचक्षुः तस्मै नयचक्षुषे, अर्हते= पूज्याय, तस्म% दिलीपाय, अर्हणाम् = पूजाम, चक्र:= अकुर्वन् ।