________________
प्रथमः सर्गः
५५
पवनेन वायुना, उद्धृताः= कम्पिताः इति पवनोद्धृताः, तैः पवनोद्ध्ता, आ= समन्तात्, हवनम् = मन्त्रपूर्वकमग्नी हविष्यक्षेपः, आहुतिः, आहुतेः गन्धः = सुरभिः, एषामस्तीति, आहुतिगन्धिनः, तैः, आहुतिगन्धिभिः, धूमैः, उद्गतं मुखम् = आननं येषां ते, उन्मुखाः, आश्रमस्य = मुन्यावासस्य, उन्मुखाः, इति, आश्रमोन्मुखाः, तान्, आश्रमोन्मुखान्, वसिष्ठावासं प्रति गमनोत्सुकानित्यर्थी, अतिथीन् = अभ्यागतान्, पुनानम् = पवित्रीकुर्वाणम्, 'आश्रमं प्रापत्' ।
समा०-अभितः उत्थिताः इति अभ्युत्थिताः, अभ्युत्थिताश्च ते अग्नयः इति अभ्यत्थिताग्नयः तेषां,पिशुना इति अभ्युत्थाग्निपिशुनाः, तैः अभ्युत्थिताग्निपिशुन।। पवनेन, उद्भूताः इति, पवनोद्भूताः, तैः, पवनोद्भूतैः । आहुतेः गन्धः आहुतिगन्धः, सः एषाम् अस्ति इति आहुतिगन्धिना, ती, आहुतिगन्धिभिः। उद्गतं मुखं येषां, ते उन्मुखा।, आश्रमस्य उन्मुखाः इति आश्रमोन्मुखाः, तान् आश्रमोन्मुखान् । ___अभि०-राजा दिलीपः, मुनिजनविहितहवनस्य गन्धेन मिश्रितैः पवनवशादितस्ततः प्रसद्भिधूमैरभ्यागतजनान्पवित्रीकुर्वाणमाश्रमं प्राप ।
हिन्दी-राजा दिलीप मुनियों से किये गये हवन की गन्ध से मिश्रित धुएं से, जो कि हवा से आश्रम के इधर-उधर फैला हुआ था, आने वाले अतिथियों को पवित्र करने वाले मुनि वसिष्ठजी के आश्रम में पहुँचे ॥५३॥
अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः।
तामवारोहयत्पत्नी रथादवतंतार च ॥५४ ॥ सञ्जीविनी--अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथि धुरं वहन्तीति धुर्या युग्याः। 'धुरो यड्ढको' इति यत्प्रत्ययः । पूर्वहे धुर्यधोरेयधुरीणाः सपरंधराः' इत्यमरः। धुर्यान्रथाश्वान्विश्रामय विनीतश्रमान्कुर्वित्यादिश्याज्ञाप्य तां पत्नी रथादवारोहयदवतारितवान्स्वयं चावततार । 'विश्रमय' इति ह्रस्वपाठे 'जनीजष०' इति मित्वे 'मितां ह्रस्व' इति ह्रस्वः । दीर्घपाठे 'मितां ह्रस्वः' इति सूत्रे 'वा चित्तविरागे' इत्यतो 'वा' इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणत्वाद्. ह्रस्वाभाव इति वृत्तिकारः॥५४॥
अन्वयः-अथ, सा, यन्तारम्, धुर्यान, विश्रामय, इति, आविष्य, ताम्, पत्नीम्, रथात्, अवारोहयत्, स्वयम्, च, अवततार ।