________________
रघुवंशमहाकाव्ये = तृणधान्यानि यासु ताः, आतपात्ययसंक्षिप्तनीवाराः, तासु आतपात्ययसंक्षिप्तनीवारासु, अङ्गनस्य अजिरस्य भूमयः = प्रदेशाः, इति, अङ्गनभूमयः, उटजानाम् = पर्णशालानाम् अङगनभूमयः, इति उटजाङगनभूमयः, तासु उटजाङगन भूमिषु, निषीदन्ति = तिष्ठन्ति, तच्छीलाः, निषादिनः, तः, निषादिभिः, मृगैः= हरिणः, वर्तितः = निष्पादितः, रोमन्थः = चर्वितस्याकृष्य पुनश्चर्वणम्, यस्मिन् तम्, 'आश्रमम्, प्रापत्'।
समा०--आ समन्तात् तापयति इति आतपः, तस्य अत्ययः, आतपात्ययः, तस्मिन् संक्षिप्ताः नीवाराः यासु ताः, आतपात्ययसंक्षिप्तनीवाराः, तासु,आतपात्ययसंक्षिप्तनीवारासु । उटजानाम् अङ्गनभूमयः इति, उटजाङ्गनभूमयः, तासु उटजाङ्गनभूमिषु । वर्तितः रोमन्थः यस्मिन् सः वर्तितरोमन्थः तम् वर्तित रोमन्थम्।
अभि०-राजा दिलीपः, यत्र सायंकाले पर्णशालानां चत्वरप्रदेशेष राशीकृतेषु तृणधान्येषु सुखेनोपविष्टा मगाश्चर्वितचर्वणं कुर्वन्ति, तं मुनेराश्रमं प्रापत् ।
हिन्दी-राजा दिलीप सायंकाल के समय मुनि वशिष्ठ के आश्रम में पहुंचे जहाँ कि पर्णशालाओं के आंगनों में धूप के चले जाने से इकट्ठे किये नीवार नामक धान्य के ढेरों पर बैठे हुए हरिण रोमन्थ अर्थात् जुगाली कर रहे थे ॥५२॥
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोद्धृतैमैराहुतिगन्धिभिः ॥ ५३॥ सञ्जीविनी-अभ्युत्थिताः प्रज्वलिताः। होमयोग्या इत्यर्थः । 'समिद्धेऽ ग्नावाहुतीर्जुहोति' इति वचनात् । तेषामग्नीनां पिशुनः सूचकः पवनोद्भूतः । आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनः तै— मैराश्रमोन्मुखानतिथीन्पुवानं पविश्रीकुर्वाणम् ॥ कुलकम् ॥५३॥
अन्वयः-अभ्युत्थिताग्निपिशुनः, पवनोद्भूतः, आहुतिगन्धिभिः, धर्मः, आपमोन्मुखान, अतिथीन, पुनानम्, 'आश्रमम् प्रापत्' ।
वाच्य--पुनानः, आश्रमः, प्रापि ।
व्याख्या--अभितः उत्थिता:=प्रज्वलिताः, इति, अभ्युत्थिताः, अभ्युत्थिताश्च, ते अग्नयः = वह्नयः, इति, अभ्युत्थिताग्नयः, अभ्युत्थिताग्नीनां पिशुनाः= सूचकाः, इति, अभ्युत्थिताग्निपिशुनाः ते। अभ्युत्थिताग्निपिशुन:,