________________
प्रथमः सर्गः
मुनिकन्याभिः, आलवालेषु = आवालेषु, अम्बु = जलम् इति, आलवालाम्ब, तत्पातुं = पानं कर्तु शीलं येषां ते, आलवालाम्बुपायिनः, तेषाम्, आलवालाम्बुपायिनाम्, विहायसा गच्छन्तीति विहङ्गाः= पक्षिणः, तेषाम् विहङ्गानाम्, विश्वासाय = विसम्भाय, विश्वासं जनयितुमित्यर्थः, तत्क्षणे = तस्मिन्नेवावसरे, उज्झिता इति तत्क्षणोज्झिताः ह्रस्वा वृक्षा वृक्षकाः, तत्क्षणोज्झिता वृक्षका यस्मिन् सः, तादृशम्, 'आश्रमम्, प्रापत्'।
समा०- सेकस्य अन्तः सेकान्तः तस्मिन् सेकान्ते । आलवालेषु यदम्बु तत्यातुं शीलं येषां ते आलवालाम्बुपायिनः, तेषाम् आलवालाम्बुपायिनाम् । स चासो क्षणश्च तत्क्षणः तत्क्षणे उज्झिता इति तत्क्षणोज्झिताः, ह्रस्वाः वृक्षाः वृक्षकाः, तत्क्षणोज्झिताः वृक्षका यषु सः तत्क्षणोज्झितवृक्षकः तम् तत्क्षणोज्झितवृक्षकम् ।
अभि --पक्षिणो निर्भयाः सन्तः पानीयं पिबन्तु, इति मनसि विचार्य यत्र मुनिकुमारिका लघुवृक्षमूलसेचनं कृत्वा तत्क्षणादेवापयान्ति तमेवाश्रमं प्रापत् ।
हिन्दी-राजा दिलीप, पक्षिगण निर्भय होकर पानी पियें इस दृष्टि से छोटे वृक्षों की जड़ों में पानी देकर मुनिबालिकायें जहाँ तुरत हट जाती हैं, उस आश्रम में पहुँचे ॥५१॥
आतपात्ययसंक्षिप्तनीवारासु निषादिभिः।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥५२॥ सञ्जीविनी-आतपस्यात्ययेऽपगमे सति संक्षिप्ता राशीकृता नीवारास्त. णधान्यावि यासु तासु । 'नीवारास्तृणधान्यानि' इत्यमरः । उटजानां पर्णशालानामङ्गनभूमिषु चत्वर भागेषु । 'पर्णशालोटजोऽस्त्रियाम् इति । 'अङ्गनं चत्वराजिरे' इति चामरः । निषादिभिरुपविष्टम गर्वतितो निष्पादितो रोमन्थश्चवितचर्वणं यस्मिन्नाश्रमे तम् ॥५२॥
अन्वयः--आतपात्ययसंक्षिप्तनीवारासु, उटजाङ्गनभूमिषु, निषाविभिः, मगः, वतितरोमन्थम्, 'आश्रमम्, प्रापत्' ।
वाच्य०--वर्तितरोमन्थः, आश्रमः, प्रापि।
ध्याख्या-आ= समन्तात्, तापयति = संतापं जनयति, इति, आतपः, तस्थ अत्ययः= ध्वंसः, इति आतपात्ययः, आतंपात्यये, संक्षिप्ता३% राशीकृताः, नीवाराः