________________
५२
रघुवंशमहाकाव्य यस्य, उचिता:= योग्याः, तैः, नीवारभागधेयोचितः, 'अतएव' उटजानां = पर्णशालानां, द्वाराणि = प्रतीहारान्, 'द्वारिं प्रतीहार' इत्यमरः । रोद्धम् शीलं येषां ते तैः, उटजद्वाररोधिभिा, 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः। मृगः हरिणः, ऋषीणां= मंत्रद्रष्टणां, पल्यः = भार्याः, तासा , ऋषिपत्नीनाम्, अपत्यः = पुत्रः, इव = यथा, आकीर्ण = व्याप्तम्, आश्रमं प्रापदिति पूर्वश्लोकेनान्वयः।
समा०-भाग एव भागधेयः, नीवाराणाम् भागधेय इति नीवारभागधेयः, नीवारभागधेयस्य उचिताः नीवारभागधेयोचिताः, तैः नीवारभागधेयोचितः। उटजानाम् द्वाराणि उटजद्वाराणि, उटजद्वाराणि रोद्धम् शीलम् येषाम् ते उटजद्वाररोधिनः, तैः उटजद्वाररोधिभिः। ऋषीणाम् पत्यः ऋषिपत्न्यः तासाम् ऋषिपत्नीनाम्।
अभि०-ऋषिपत्नीनां वालका यथोटजद्वारं रुद्ध्वा अतिष्ठन्, तथैव तृणधान्यांशाहरणार्थं मुगा उटजद्वारं व्याप्य स्थिता आसन् ।
हिन्दी-ऋषिपत्नियों के बालकों के समान तिन्नी के चावल खाने के अभ्यासी, इसी लिये पर्णकुटियों के द्वारों को छेके खड़े हुए मगों से वह आश्रम परिपूर्ण था ॥५०॥
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥५१॥ सञ्जीविनी--सेकान्ते वृक्षमलसेचनावसाने मुनिकन्याभिः। सेक्त्रीभिः । आलवालेषु जलावापप्रदेशेषु यदम्बु तत्पायिनां । 'स्यादालवालमावालमावापः' इत्यमरः। विहङ्गानां पक्षिणां विश्वासाय विश्रम्भाय “समौ विश्रम्भ विश्वासो' इत्यमरः, तत्क्षणे सेकक्षण उज्झिता वृक्षका ह्रस्ववृक्षा यस्मिस्तम् । ह्रस्वार्थे कप्रत्ययः ॥५॥ ___ अन्वयः--सेकान्ते, मुनिकन्याभिः, आलवालाम्बुपायिनाम्, विहङ्गानाम्, विश्वासाय, तत्क्षणोज्झितवृक्षकम्, 'आश्रमम्, प्रापत्' । __वाच्य०--आलवालाम्बुपायिनाम्, विहङ्गानाम्, विश्वासाय, मुनिकन्याभिः, सेकान्ते, तत्क्षणोज्झितवृक्षक: आश्रमः, प्रापि ।
व्याख्या-सेकस्य =तरुमलसेचनस्य, अन्तः = अवसानम्, इति सेकान्तः, तस्मिन् सेकान्ते, मुनीनां = ऋषीणां, कन्या: = सुताः, इति मुनिकन्याः, ताभिः,