________________
प्रथमः सर्गः व्याख्या--अन्यत् वनमिति वनान्तरं = विपिनान्तरं तस्मात् वनान्तरात्, उपावृत्त:=प्रत्यागतः समिधः=काष्ठानि च, कुशाः= दर्भाश्च, फलानि = आम्रादिफलानि चेति समित्कुशफलनि तान्याहतुं शीलं येषां ते तैः समित्कुशफलाहरः, अदृश्याः = दर्शनायोग्या!= असंलक्ष्या इत्यर्थः, च ते, अग्नयः = वह्नयस्तैः प्रत्युद्याताः=प्रत्युद्गतास्तः अदृश्याग्निप्रत्युद्यातः, तप:= तपश्चरणमस्ति येषां ते तेस्तपस्विभिः= तापसः, पूर्यमाणम् = व्याप्तम्, आश्रमं प्रापदित्यर्थः ।
समा०-अन्यत् वनम् वनान्तरम् तस्मात् वनान्तरात् । समिधश्च कुशाश्च फलानि च समित्कुशफलानि, समित्कुशफलानि आहर्तुम् शीलम् येषाम् ते समिस्कुशफलाहराः, तेः समित्कुशफलाहरैः । द्रष्टुम् योग्याः दृश्याः, न दृश्याः अदृश्याः अदृश्याश्च ते अग्नयः अदृश्याग्नयः, अदृश्याग्निभिः प्रत्युद्याताः इति अदृश्याग्निप्रत्युद्याताः, तैः अदृश्याग्निप्रत्युद्यातः। तपः अस्ति येषाम् ते तपस्विनः तैः तपस्विभिः ।
अभि०--वनान्तरात् समित्कुशफलान्यादाय परावृत्तः, अदृश्यवंतानिकाग्निप्रत्युद्गतेस्तापसाप्तमाश्रमं प्रापत् । हिन्दी-दूसरे वन से समिधा कुशा तथा फलों को लेकर लौटे हुए, तपस्वियों से वसिष्ठाश्रम भरा हुआ था, और उन पाने वाले तपस्वियों की अदृश्य होकर श्रौताग्नि अगवानी कर रहा था ॥४९॥
आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः।
अपत्यैरिव नीवारभागधेयोचितैमगैः॥५०॥ सञ्जीविनी-नीवाराणां भाग एव भाग घेयोंऽशः । 'भागरूपनामभ्यो धेयः' इति वक्तव्यसूत्रात्स्वाभिधेये घेयप्रत्ययः। तस्योंचितैः। अत एवोटजानां पर्णशालानां द्वाररोधिभिररोधकर्मगैः ऋषिपत्नीनामपत्यैरिव आकीणं व्याप्तम् ॥
अन्वयः--नीवारभागधेयोचितः, उटजद्वाररोषिभिः, मगः, ऋषिपत्नीनाम्, अपत्यः, इव आकीर्णम्, 'आश्रमं प्रापत्' ।
वाच्य-नीवारभागधेयोचितैरुटजद्वाररोधिभिः, मुगः ऋषिपत्नीनामपत्यरिवाकीर्ण आश्रमः प्रापि ।
व्याख्या--भाग एवते भागधेयः, नीवाराणां तृणधान्यानो, 'तृणधान्यानि नीवारा' इत्यमरः, भागधेयः= अंशः, इति नीवारभागधेयः, तस्य नीवारभागधे.