________________
रघुवंश महाकाव्ये
व्याख्या - दुःखेन प्राप्तुं शक्यं दुष्प्रापं दुष्प्रापम् = अन्यदुर्लभम्, यशः = = कीर्तियस्य स दुष्प्रापयशाः, श्रान्तानि = क्लान्तानि दूरोपगमनादित्यर्थः, वाहनानि = अश्वा इत्यर्थः, यस्यासौ श्रान्तवाहनः, 'सर्वं स्यात् वाहनं, यानं युग्यं पत्रं च' इत्यमरः । महिष्याः = कृताभिषेकायाः सुदक्षिणायाः, सखा = सहायः, इति महिबीसखः अन्य सहायानपेक्ष इत्यर्थः, सः = राजा दिलीपः, सायं = सायंकाले, संयंमोऽस्यास्तीति संयमी तस्य संयमिनः = नियमवतः, तस्य पूर्वोक्तस्य कुलगुरोः, महांश्चासी ऋषिस्तस्य महर्षेः = वसिष्ठस्य, आश्रमम् = आवासं, प्रापत् = प्राप । ० - दुःखेन प्राप्तुम् शक्यम् दुष्प्रापम्, दुष्प्रापम् यशः यस्य सः दुष्प्रापयशाः । श्रान्तानि वाहनानि यस्य सः श्रान्तवाहनः । महिष्याः सखा महिषीसखः । संयमः अस्य अस्ति इति संयमी तस्य संयमिनः, महान् च असौ ऋषिः महर्षिः, तस्य महर्षेः ।
=
समा०
५०
अभि० -- अन्य दुर्लभ कीर्तिः सपत्नीको दिलीपः सायंकाले नियमवतः कुलगुरोर्वसिष्ठस्याश्रमं प्राप ।
हिन्दी - अन्य मनुष्यों से दुर्लभ यशवाले और थके हैं घोडे जिसके ऐसे राजा दिलीप अपनी पत्नी के साथ सायंकाल होते २ संयमी महर्षि वसिष्ठजी के आश्रम में पहुँच गए ॥ ४८ ॥
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः ।
पूर्यमाणमदृश्याग्निप्रत्युद्यातैस्तपस्विभिः ॥ ४६ ॥
सञ्जीविनी — वनान्तरादन्यस्माद्वनादुपावृत्तैः प्रत्यावृत्तैः । समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफल हरास्तेः । 'आङि ताच्छील्ये' इति हरतेराङपूर्वादच्प्रत्ययः । अदृश्यैर्दर्शनायोग्य रग्निभिवैतानिकैः प्रत्युद्याताः प्रत्युद्गताः तैस्तपस्विभिः पूर्यमाणम् । 'प्रोष्यागच्छतामाहिताग्नीनामग्नयः प्रत्युद्यान्ति' इति श्रुतेः । यथाह – 'कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति । एवमेतमग्नयः प्रत्याधावन्ति सशकलान्दारूनिवाहरन्' इति ॥४९॥
अन्वयः -- -- वनान्तरात्, उपावृत्तेः, समित्कुशफलाहरैः अदृश्याग्निप्रत्युद्यातेः, तपस्विभिः पूर्यमाणम्, 'आश्रमं प्रापत्' ।
वाच्य०--वनान्तरादुपावृत्तैः समित्कुशफलाहरैः, अदृश्याग्निप्रत्युद्यातेः तपस्विभिः पूर्यमाण आश्रमः प्रापि ।