________________
प्रथमः सर्गः
अन्वयः - प्रियदर्शन:, बुधोपमः, भूमिपतिः, तत्तत्, पत्न्यं दर्शयन्, लङ्घितम्
.
अपि, अध्वानं, न, बुबुधे ।
- प्रियदर्शनेन बुधोपमन भूमिपतिना तत्तत् पत्न्यं दर्शयता लंधिसोऽपि, अध्वा न बुबुधे ।
-02015
व्याख्या -- प्रियं = हृद्यं, मनोहरमित्यर्थः, दर्शनम् = अवलोकनं यस्य स प्रियदर्शन:, बुधः = सौम्यः, चन्द्रपुत्र इत्यर्थः पण्डितश्च, उपमा = उपमानं यस्यासी बुघोषमः 'उपमोपमानं स्याद्' इत्यमरः । पातीति पतिः, भूमेः = पृथिव्याः पतिः = स्वामीति भूमिपतिः, राजा दिलीप इत्यर्थः, तत्तत् = अद्भुतं दर्शनीयं वस्तु, पत्न्यं = भार्यायै दर्शयन् = सन्दर्शयन्, लंघितम् = अतिवाहितम् अतिक्रान्तमित्यर्थः,
=
अपि, अध्वानं = मार्ग, न = नहि बुबुधे - अबोधिष्ट ज्ञातवानित्यर्थः ।
1
४९
--
- प्रियम् दर्शनम् यस्य सः प्रियदर्शनः । बुध उपमा यस्य सः बुधोपमः ।
समा०
पाति इति पतिः भूमेः पतिः भूमिपतिः ।
-
अभि० – मनोहरवपुर्दिलीपः स्वभार्याय पथि दर्शनीयमद्भुतं वस्तु दर्शयन्, अतिक्रान्तमपि मागं कियद्दूरमागतोऽस्मीति न ज्ञातवान् ।
हिन्दी - पण्डितों के समान बुद्धिमान्, तथा मनोहर शरीर वाले राजादिलीप, अपनी स्त्री को मार्ग के सब दर्शनीय दृश्य दिखाते हुए, 'ऐसे रम गये कि ' पीछे छूटे मार्ग को भी न जान सके ॥४७॥
स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥ ४८ ॥
सञ्जीविनी - - दुष्प्रापयशाः । दुष्प्रापमन्यदुर्लभं यशो यस्य स तथोक्तः । श्रान्तवाहनो दूरोपगमनात्कलान्तयुग्यः । महिष्याः सखा महिषीसखः । ' राजाह:सखिभ्यष्टच्' इति टच्प्रत्ययः । सहायान्तरनिरपेक्ष इति भावः । स राजा सायं सायंकाले संयमिनो नियमवतस्तस्य महर्षेर्वसिष्ठस्याश्रमं प्रापत्प्राप । पुषादि
त्वादङ् ||४८ ॥
अन्वयः - दुष्प्रापयशाः, श्रान्तवाहनः, महिषीसखः, सः, सायं, संयमिनः, तस्य महर्षेः, आश्रमम्, प्रापत् ।
वाच्य० - दुष्प्रापयशसा श्रान्तवाहनेन महिषीसखेन तेन सायं संयमिनस्तस्य महर्षेः, आश्रमः प्रापि ।