________________
४८
रघुवंशमहाकाव्ये दिलीपयोः। हिमनिमुक्तयोश्चित्राचन्द्रमसोरिव । योगे सति काप्यनिर्वाच्याभिख्या शोभासीत् । 'अभिख्या नामशोभयोः' इत्यमरः । 'आतश्चोपसर्गे' इत्यणप्रत्ययः । चित्रा नक्षत्रविशेषः। शिशिरापगमे चत्र्यां चित्रापूर्णचन्द्रमसोरिवेत्यर्थः ।।४६॥
अन्वयः-व्रजतोः शुद्धवेषयोः, तयोः, हिमनिमुक्तयोः, चित्राचन्द्रमसोः, इव, योगे 'सति' कापि, अभिख्या, नासीत् ।
वाच्य--व्रजतो: शुद्धवेषयोस्तयोः, हिमनिर्मुक्तयोः, चित्राचन्द्रमसोरिव, योगे 'सति' कयाऽपि, अभिख्यया, अभूयत । ___ व्याख्या--व्रजतोः = गच्छतोः, शुद्धः= उज्वलः शुभ्रः, वेष:- नेपथ्यं ययोस्तयोः, शुद्धवेषयोः, सा च स च तो तयोः= सुदक्षिणादिलीपपोः, हिमेन = तुषारेण 'तुषारस्तुहिनं हिमम्' इत्यमरः । निर्मुक्तौ = त्यक्ती तयोः हिमनिर्मुक्तयोः, चित्रा नक्षत्रविशेषः, चन्द्रमा:- चन्द्रमाश्चेति चित्राचन्द्रमसो तयोः चित्राचन्द्रमसोः, इव = यथा, योगे-संगतो, 'सति' चैत्र्यां पूर्णिमायां चित्राचन्द्रमसोरिवे. त्यर्थः, काऽपि = अनिर्वचनीया अभिख्या- शोभा, आसीत् = अभवत् ।।
समा०-शद्धः वेषः ययोः तो शद्धवेषौ तयोः शुद्धवेषयोः। सा च स च तो तयोः तयोः । हिमेन निर्मुक्ती हिमनिर्मुक्तो तयोः हिमनिर्मुक्तयोः, चित्रा च चन्द्रमाः च चित्राचन्द्रमसौ तयोः चित्राचन्द्रमसोः ।
अभि० - यथा शिशिरावसाने चैत्रस्य पूर्णिमायां चित्रापूर्णचन्द्रयोः, योगे सति, अलौकिकी शोभा भवति, एवं शुभ्रवेषयोः सुदक्षिणादिलीपयोरतीव शोभाऽभूत् ।
हिन्दी--मार्ग में जाते समय सुदक्षिणा के साथ उज्वल वस्त्र पहने राजा दिलीप की वैसी ही अपूर्व शोभा हो रही थी जैसी शिशिर ऋतु के पश्चात चैत्र की पूर्णिमा में चित्रा नक्षत्र के साथ निर्मल चन्द्र की होती है ॥४६।।
तत्तभूमिपतिः पल्यै दर्शयन्प्रियदर्शनः।
अपि लवितमध्वानं बुबुधे न बुधोपमः ॥ ४७ ।। सञ्जीविनी--प्रियं दर्शनं स्वकर्मकं यस्यासी प्रियदर्शनः । योग्यदर्शनीय इत्यर्थः । भूमिपतिः पत्न्य तत्तदद्भुतं वस्तु दर्शयल्लङघितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान् । बुधः सौम्य उपमोपमानं यस्यति विग्रहः । इदं विशेषणं तत्तद्दर्शयन्नित्युपयोगितयवास्य ज्ञातृत्वसूचनार्थम् ॥४७॥