________________
१०४
रघुवंशे तस्यै भर्तुरमिज्ञानमङ्गुलीयं ददौ कपिः ।
प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुमिः ॥ ६२ ॥ कपिहनुमान्भर्तृ रामस्य संबन्ध्यभिज्ञानं प्रत्यभिज्ञानसाधकमङ्गुलीयमूर्मिकाम् । 'अङ्गुलीयकमूर्मिका' इत्यमरः । 'जिह्वामूलाङ्गुलेश्छः' इति छप्रत्ययः। तस्यै जानक्यै ददौ । किंविधमङ्गुलीयम् । अनुष्णैः शीतलस्तस्या आनन्दाश्रुबिन्दुभिः प्रत्युद्गतमिव स्थितम् । भत्रभिज्ञानदर्शनादानन्दबाष्पो जात इत्यर्थः ॥ ___ अन्वयः-कपिः भर्तुः अभिज्ञानम् अंगुलीयं तस्यै ददौ। अनुष्णैः तदानन्दाश्रुविन्दुभिः प्रत्युद्गतम् इव।
व्याख्या-कपिः =मारुतिः भर्तुः = स्वामिनः = रामस्य अभिज्ञायतेऽनेन स तम् अभिज्ञानं चिह्न रामसंबन्धिचिह्नमित्यर्थः । अंगुल्याः अयं, तत्र भवो वा अंगुलीयस्तम् अंगुलीयम् = ऊर्मिकाम् , अंगुरीयकमित्यर्थः । ददौ = दत्तवान् । किंविधमंगुलीयकमित्याह न उष्णाः अनुष्णास्तैः अनुष्णैः = अधर्मैः शीतलैरित्यर्थः। तस्याः = सीतायाः आनन्दस्य = हर्षस्य अश्रूणि नेत्रजलानि तेषां बिन्दवः = कणास्तैः तदानन्दाश्रुबिन्दुभिः । प्रत्युद्गतम् = प्रत्युथितं, कृतस्वागतम् इव = यथा स्थितम् । रामप्रषितमुद्रिकादर्शनेन आनन्दाश्रूणि जातानीत्यर्थः ।
समासः-न उष्णाः अनुष्णास्तैः अनुष्णैः। आनन्दस्य अश्रूणि, आनन्दाश्रूणि । तस्याः आनन्दाश्रूणि तदानन्दाश्रूणि तेषां बिन्दवस्तैः तदानन्दाश्रुबिन्दुभिः ।।
हिन्दी-हनुमान् ने रामचन्द्रजी का चिह्न अंगूठी सीताजी को दी। "तब सीताजी ने" ठण्डे, अपने आनन्द के आँसुओं के बूंदों से अभ्युत्थान एवं स्वागत किया। अर्थात् राम की अँगूठी पाकर प्रसन्नता से सीताजी की आँखों में आँसू आ गए मानों उन्होंने अँगूठी का स्वागत किया ॥ ६२॥
निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः ।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥ ६३ ॥ __ स कपिः प्रियस्य रामस्य संदेशैर्वाचिकैः सीतां निर्वाप्य सुखयित्वा । अक्षस्य रावणकुमारस्य वधेनोद्धतो दृप्तः सन् । क्षणं सोढोऽरेरिन्द्रजितः कर्तुः निग्रहो बन्धो ब्रह्मास्त्रबन्धरूपो येन स तथोक्तः सन् । लङ्कां पुरी ददाह भस्मीचकार ॥
अन्वयः-सः प्रियसन्देशैः सीतां निर्वाप्य, अक्षवधोद्धतः क्षणसोढारिनिग्रहः सन् लंकां पुरी ददाह।
व्याख्या-सः मारुतिः प्रियस्य = रामस्य सन्देशाः = सन्देशवचनानि तैः प्रियसन्देशैः सीतां =जानकी निर्वाप्य = सुखयित्वा अक्षस्य = अक्षकुमारस्य रावणपुत्रस्येत्यर्थः। वधः=मारणं तेन उद्धतः-गर्वितः, इति अक्षवधोद्धतः सन् , अरेः- मेघनादस्य "कर्तुः” निग्रहः= निरोधः ब्रह्मास्त्रेण बन्धनमित्यर्थः इति अरिनिग्रहः, क्षणं = किंचित्कालं सोढः =मर्षितः अरिनिग्रहः येन स क्षणसोढारिनिग्रहः सन् लङ्कां पुरी रावणराजधानी ददाह = दग्धवान् , भस्मीभूतां कृतवानित्यर्थः।