SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः १०५ समासः-प्रियस्य सन्देशाः प्रियसन्देशास्तैः प्रियसन्देशैः । अक्षस्य वधः अक्षवधस्तेन उद्धतः इति अक्षवधोद्धतः । अरे: निग्रहः अरिनिग्रहः, क्षणं सोढः अरिनिग्रहः येन स क्षणसोढारिनिग्रहः। हिन्दी—हनुमान्जी ने रामचन्द्रजी के कुशल समाचार से सीताजी को सुखी करके ( सान्त्वना देकर ) तथा अक्षकुमार ( रावण का पुत्र ) को मारने से उत्तेजित गीले होकर और कुछ काल तक शत्रु मेघनाद के द्वारा ब्रह्मास्त्र के बन्धन को सहकर लङ्का को जला दिया ॥ ६३ ॥ प्रत्यभिज्ञानरत्रं च रामायादर्शयत्कृती। हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ॥ ६४ ॥ कृती कृतकृत्यः कपिः स्वयमायातं मूर्तिमद्वैदेह्या हृदयमिव स्थितं तस्या एव प्रत्यभिज्ञानरत्नं च रामायादर्शयत् ॥ अन्वयः-कृती स्वयम् आयातं मूर्तिमत् वैदेह्याः हृदयम् इव स्थितं "तस्याः एव" प्रत्यभिज्ञानरत्नं रामाय अदर्शयत् । व्याख्या–प्रशस्तं कृतं कर्मास्यासौ कृती। कृतमनेन वा कृती= कुशलः, कृतकृत्यः मारुतिः स्वयम् = आत्मना आयातम् = आगतम् , मूर्तिः = स्वरूपमस्ति अस्य तत् मूर्तिमत् = शरीरधारि वैदेह्याः = सीतायाः हृदयं = चित्तम् इव स्थितं सीताया एव प्रत्यभिज्ञानं =चिह्नभूतं च तद्रत्नं चूडामणिः इति प्रत्यभिज्ञानरत्नं तत् रामाय = राघवाय अदर्शयत् = दर्शितवान् । समासः-प्रत्यभिज्ञानं च तद्रत्नमिति प्रत्यभिज्ञानरत्नम् , तत् । हिन्दी-सीताजी का पता लगाकर लौटे हनुमान्जी ने, सीताजी से मिलने की पहचान के लिये उन्हीं की चूड़ामणि राम को दिखाई। मानो अपने आप चलकर आया साक्षात् सीता का हृदय ही हो—ऐसा आनन्द उसे देखकर राम को हुआ ॥ ६४ ॥ स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः । अपयोधरसंसाँ प्रियालिङ्गननिर्वृतिम् ॥ ६५ ॥ हृदये वक्षसि न्यस्तस्य धृतस्य मणेरभिज्ञानरत्नस्य स्पर्शन निमीलितो मोदितः स रामोऽ. विद्यमानः पयोधरसंसर्गः स्तनस्पों यस्यास्तां तथाभूतां प्रियाया आलिङ्गनेन या निर्वृतिरानन्दस्तां प्राप ॥ अन्वयः-हृदयन्यस्तमणिस्पर्शनिमीलितः सः अपयोधरसंसा प्रियालिङ्गननिर्वृतिम् अवाप । व्याख्या-हृदये = वक्षस्थले न्यस्तः= निहितः मणिः= प्रत्यभिज्ञानचूडारत्नं, तस्य स्पर्शः = संपर्कः, आलिङ्गनमित्यर्थः, तेन हृदयन्यस्तमणिस्पर्शेन निमीलितः= आनन्देन निमेषरहितः, प्रसन्नः इति हृदयन्यस्तमणिस्पर्शनिमीलितः सः= रामचन्द्रः धरतः इति धरौ, पयसः= दुग्धस्य धरौ, इति पयोधरौ पयोधरयोः संसर्ग:= स्पर्शः, इति पयोधरसंसर्गः। अविद्यमानः पयोधरसंसर्गः यस्याः सा ताम् , अपयोधरसंसर्गाम् । प्रियायाः = प्रियतमायाः आलिङ्गनं = स्पर्शः इति प्रियालिङ्गनं तेन या निर्वृतिः = सुखं तां प्रियालिङ्गननिर्वृतिम् प्राप = अवाप प्राप्तवान्नित्यर्थः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy