________________
द्वादशः सर्गः
९७ हिन्दी-रामचन्द्र जी के बाणों से काटी गई ( काटकर समाप्त कर दी गई ) राक्षसों की बड़ी भारी उस सेना में नाचते-कूदते हुए धड़ों के सिवाय और कुछ भी दिखाई नहीं पड़ रहा था। अर्थात् सम्पूर्ण सेना मार दी गई। केवल शिरकटे धड़ ही धड़ दीख रहे थे ॥ ४९ ॥
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ ५० ॥ ___ सा सुरद्विषां वरूथिनो सेना वाणवर्षिणं रामं योधयित्वा युद्धं कारयित्वा। गृध्राणां छाया गृध्रच्छायम् । 'छाया बाहुल्ये' इति क्लीबत्वम् । तस्मिन्नप्रबोधायापुनर्योधाय सुष्वाप । ममारेत्यर्थः । अत्र सुरतश्रान्तकान्तासमाधिव॑न्यते ॥
अन्वयः-सा सुरद्विषां वरूथिनी बाणवर्षिणं रामं योधयित्वा गृध्रच्छाये अप्रबोधाय सुष्वाप ।
व्याख्या-सा = पूर्वोक्ता सुरान् = देवान् द्विषन्ति = द्रुह्यन्ति इति सुरद्विपस्तेषां सुरद्विषाम् = रक्षसां वरूथाः = रथगुप्तयः सन्ति यस्यां सा वरूथिनी =सेना “वरूथो रथगुप्तौ स्यात्" इति मेदिनी । बाणान् = शरान् वर्षति तच्छीलः इति बाणवर्षों तं बाणवर्षिणं = शरवर्षिणं रामं =राववं योधयित्वा = युद्ध कारयित्वा गृध्राणां = दाक्षाय्याणां छाया = कान्तिरिति गृध्रच्छायं तस्मिन् गृध्रच्छाये "दाक्षाय्यगृध्रौ” इत्यमरः । न प्रबोधः = जागरणमिति अप्रबोधस्तस्मै अप्रबोधाय अपुनर्जागरणाय सुष्वाप = शेते स्म ।
समासः-सुराणां द्विषः सुरद्विषस्तेषां सुरद्विषाम् । न प्रबोधः अप्रबोधस्तस्मै अप्रबोधाय । गृध्राणां छाया गृध्रच्छायं तस्मिन् गृध्रच्छाये।
हिन्दी-वह राक्षसों की सेना बाणबरसाने वाले राम से युद्ध करके गिद्धों के पंखों को छाया में फिर कभी न उठने के लिये सो गई । अर्थात् सदा के लिये सो गई ॥ ५० ॥
राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥ ५१ ॥ एका शूर्पवन्नखानि यस्याः सा शूर्पणखा । 'पूर्वपदात्संज्ञायाम्' इति णत्वम् । 'नखमुखात्सं. ज्ञायाम्' इति ङीप्पतिषेधः । सैव रावणं प्रति राववास्त्रविदीर्णानां हतानां तेषां रक्षसां खरादीनां दुष्प्रवृत्तिं वार्ता हरति प्रापयतीति दुष्प्रवृत्तिहराऽभवत् । 'हरतेरनुद्यमनेऽच्' इत्यच्प्रत्ययः ॥
अन्वयः-एका शूर्पणखा एव रावणं प्रति राघवास्त्रविदीर्णानां तेषां रक्षसाम् दुष्प्रवृत्तिहरा अभवत् ।
व्याख्या-एका = अद्वितीया शूर्पवत् नखानि = कररुहाणि यस्याः सा शूर्पणखा = रावणभगिनी एव = मात्रम् रावणं = दशाननं प्रति राघवस्य = रामस्य अस्त्राणि = बाणास्तैः विदीर्णानि = हतानि, इति राघवास्त्रविदीर्णानि तेषां राघवास्त्रविदीर्णानां तेषां रक्षसां = खरदूषणादिराक्षसानां दुष्प्रवृत्ति = दुर्वाता = दु:समाचारमित्यर्थः हरति = प्रापयतीति दुष्प्रवृत्तिहरा = अशुभसमाचारसूचिका अभवत् = जाता । नान्यः कोऽपि राक्षसस्तत्र जीवितोऽभवदित्यर्थः ।