________________
९६
रघुवंशे देहमतीत्य भित्त्वा गच्छन्तीति देहातिगाः। तैर्यथास्थिता पूर्वविशुद्धिर्येषां तैः। अतिवेगत्वेन देहभेदात्मागिव रुधिरलेपरहितैरित्यर्थः। शितैस्तीक्ष्णैस्तैर्बाणैस्त्रयाणां खरादीनामायुः पीतम् । रुधिरं तु पतत्रिभिः पीतम् ॥
अन्वयः-देहातिगैः यथापूर्वविशुद्धिभिः शितैः तैः बाणैः त्रयाणाम् आयुः पीतं, रुधिरं तु पतत्रिभिः पीतम् ।
व्याख्या-देहं = शरीरम् अतीत्य, विदार्य गच्छन्ति =यान्तीति देहातिगास्तैः देहातिगैः यथास्थिता पूर्वा = प्रथमा विशुद्धिः = रुधिरलेपराहित्यं येषां ते तैः यथापूर्वविशुद्धिभिः, राक्षसानां शरीरविदारणात् पूर्वमिव रुधिरलेपशून्यैः प्रबलवेगवत्त्वादित्यर्थः। शितैः = तीक्ष्णैः तैः = रामप्रेरितैः बाणः शब्दोऽस्ति येषां ते बाणास्तैः बाणैः = शरैः "पृषत्कबाणविशिखाः" इत्यमरः । त्रयाणां = खरदूषणादीनाम् आयुः =जीवितकालः पीतं = विनाशितमित्यर्थः, रुणद्धि, रुध्यते वा रुधिरं = शोणितं तु पतन्तं त्रायते इति पतन्त्रम् । पतत्राणि सन्ति येषां ते पतत्रिणः तैः पतत्रिभिः = पक्षिभिः पीतं = पानं कृतम् ।
समासः यथास्थिता पूर्वा विशुद्धिः येषां ते तैः यथापूर्वविशुद्धिभिः। देहान् अतिगच्छ. न्तीति देहातिगास्तैः तथोक्तैः ।
हिन्दी-शरीरों को छेदकर बाहर निकले, तथा पहले के समान शुद्ध ( अर्थात् प्रबल वेग के कारण जिन में खून नहीं लग सका ) ऐसे पैने बाणों ने उन तीनों खर दूषण त्रिशिरा की आयु को पी लिया । पश्चात् पक्षियों ने खून पिया। भाव यह है कि बाण तो प्रबल वेग से शरीर को छेदकर प्राण लेकर साफ निकल गये, पीछे खून पक्षियों ने पिया था ॥ ४८॥
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् । उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किंचन ॥ ४९ ॥
__तस्मिन्रामशरैरुत्कृत्ते छिन्ने महति रक्षसां बल उत्थितमुत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः। 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' इत्यमरः । अन्यच्चान्यत्किंचन न ददृशे । कबन्धेभ्य इत्यत्र 'अन्यारात्-' इति पञ्चमी । निःशेष हतमित्यर्थः ॥
अन्वयः तस्मिन् रामशरोत्कृत्ते महति रक्षसां बले, उत्थितं कबन्धेभ्यः अन्यत् किंचन न ददृशे।
व्याख्या-तस्मिन् = पूर्वोक्ते रामस्य शराः- बाणास्तैः उत्कृत्तं = छिन्नं = विनाशितमित्यर्थः, इति रामशरोत्कृत्तं तस्मिन् रामशरोत्कृत्ते महति = अत्यधिके रक्षसां = खरादीनां बले= सैन्ये उत्थितम् = उत्थानक्रियायुक्तं कं = सुखं बध्यते = छिद्यतेऽस्मात् असौ कबन्धः, केन = वायुना बध्यते इति वा कबन्धः। कबन्धेभ्यः = शिरोहीनदेहेभ्यः राक्षसानामिति शेषः अन्यत् = अतिरिक्तं किंचन न ददृशे = नहि दृष्टम् । सर्वं विनष्टमित्यर्थः ।
समासः-रामस्य शराः रामशराः, रामशरैः उत्कृत्तं तस्मिन् रामशरोत्कृत्ते ।