________________
९८
रघुवंशे
समासः-राघवस्य अस्त्राणि राघवस्त्राणि तैः विदीर्णानि तेषां राघवास्त्रविदीर्णानाम् । शूर्पवत् नखानि यस्याः सा शूर्पणखा । दुष्टा प्रवृत्तिः दुष्प्रवृत्तिः, दुष्प्रवृत्तेः हरा इति दुष्प्रवृत्तिहरा।
हिन्दी-रामचन्द्र जी के अस्त्रों से मारे गए उन खरदूषणादि राक्षसों की मृत्यु के अशुभ समाचार को रावण के पास पहुँचाने वाली एकमात्र शूर्पणखा ही रह गई थी। अर्थात् और सारी सेना रामास्त्र से मर गई थी॥ ५१ ॥
निग्रहात्स्वसुराप्तानां वधाच धनदानुजः ।
रामेण निहितं मेने पदं दशसु मूर्धसु ॥ ५२ ॥ स्वसुः शूर्पणखाया निग्रहादङ्गच्छेदादाप्तानां बन्धूनां खरादीनां वधाच्च कारणाद्धनदानुजो रावणो रामेण दशसु मूर्धसु पदं पादं निहितं मेने ॥
अन्वयः-स्वसुः निग्रहात् आप्तानां वधात् च धनदानुजः रामेण दशसु मूर्धसु पदं निहितं मेने।
व्याख्या-सुष्टु अस्यति, अस्यते वा स्वसा तस्याः स्वसुः =भगिन्याः शूर्पणखायाः निग्रहात् = निरोधात् , कर्णनासिकाच्छेदादित्यर्थः । आप्तानां = हितैषिणां खरादिबन्धूनां वधात् = मारणात् च कारणात् धनं दयते = पालयतीति धनदः = कुबेरः । धनदस्य अनुज: धनदानुजः = कुबेरकनिष्ठभ्राता रावण इत्यर्थः रामेण =राघवेण दशसु = दशसंख्यकेषु मूर्धसु = मस्तकेषु पदं = चरणं निहितं = स्थापितं मेने =अमंस्त ।
समासः-धनदस्य अनुजः धनदानुजः ।
हिन्दी-बहन शूर्पणखा के नाक कान काटने से तथा अपने हितैषी खर-दूषण आदि बन्धुओं का वध करने के कारण, कुबेर के छोटे भाई रावण ने ऐसा मान लिया, मानो राम ने रावण के दशों शिरों पर पैर रख दिया हो ॥ ५२ ॥
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ५३ ॥ स रावणो मृगरूपेण रक्षसा मारीचेन राघवौ वञ्चयित्वा प्रतार्य पक्षीन्द्रस्य जटायुषः प्रयासेन युद्धरूपेण क्षणं विग्नितः संजातविघ्नः सन्सीतां जहार ॥
अन्वयः--सः मृगरूपेण रक्षसा राघवौ वञ्चयित्वा पक्षीन्द्रप्रयासक्षणविनितः सन् सीतां जहार ।
व्याख्या-सः=रावणः मृगस्य = काञ्चनहरिणस्य रूपम् इव रूपं यस्य स तेन रक्षसा= मारीचेन राघवश्च राववश्चेति तौ राघवौ =रामलक्ष्मणौ वञ्चयित्वा = प्रतार्य पक्षिणां = खगानाम् इन्द्रः = स्वामी, इति पक्षीन्द्रः =जटायुः, तस्य प्रयासः = युद्धरूपेण पराक्रमस्तेन क्षणं = किंचित्कालं विनितः = सातबाधः, इति पक्षीन्द्रप्रयासक्षणविप्नितः सन् सीतां = जानकी जहार = हृतवान् । विघ्नः संजातोऽस्यासो विनितः ।।