________________
९१
द्वादशः सर्गः अन्वयः--लक्ष्मणः प्रथमं कोकिलामजुवादिनी, पश्चात् शिवाघोरस्वनां तां श्रुत्वा विकृता इति बुबुधे। __ व्याख्या--लक्ष्मणः प्रथमं = प्राक् कोकते इति कोकिलः । मञ्ज्यते मञ्जः। मञ्ज मनोशं वक्तुं शीलमस्याः सा मञ्जुवादिनी। कोकिला = वनप्रिया इव मञ्जुवादिनीं तां कोकिलाम - वादिनी, पश्चात् = अनन्तरम् शिवः शिवा वा देवता यस्याः सा शिवा= शृगाली । शिवावत् = शृगालीवत् घोरः = भयंकरः स्वनः = शब्दः यस्याः सा तां शिवाघोरस्वनां तां = शूर्पणखां श्रुत्वा = आकर्ण्य शूर्पणखायाः शब्दं श्रुत्वेत्यर्थः । विकृता = बीभत्सा, मायाविनीत्यर्थः इति बुबुधे = ज्ञातवान् ।
समासः-कोकिलावत् मजुवादिनी, तां कोकिलाम वादिनीम् । शिवावत् घोरः स्वनः यस्याः सा शिवावोरस्वना तां शिवाघोरस्वनाम् । ____ हिन्दी-कोयल के समान मधुर बोलने वाली और फिर सियारिन की तरह भयंकर कठोर बोलने वाली उस शूर्पणखा को सुनकर ( अर्थात् उसका स्वर सुनकर ) लक्ष्मण ने यह मायाविनी राक्षसी है । यह जान लिया ।। ३९ ॥
पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य स. ।
वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत् ॥ ४० ॥ अथ स लक्ष्मणो विकृष्टासिः कोशोद्भुतखड्गः सन्क्षिप्रं पर्णशालां प्रविश्य। भीषयतीति भीषणाम् । नन्द्यादित्वाल्युट कर्तरि । तां रक्षसीं वैरूप्यस्य पौनरुक्त्यं द्वैगुण्यं लक्षणया। तेनायोजयद्योजितवान् । स्वभावत एव विकृतां तां कर्णादिच्छेदेन पुनरतिविकृतामकरोदित्यर्थः ॥
अन्वयः-अथ स विकृष्टासिः सन् क्षिप्रं पर्णशालां प्रविश्य, भीषणां तां वैरूप्यपौनरुक्त्येन अयोजयत्। ___ व्याख्या-अथ = अनन्तरम् सः = लक्ष्मणः विकृष्टा= कोशानिष्कासिता असिः= खड्गः येन स विकृष्टासिः सन् क्षिपति = प्रेरयतीति क्षिप्रं = शीघ्रम् पर्णानां = पत्राणां शाला = कुटी पणैः = निर्मिता शाला पर्णशाला तां पर्णशालाम् शाकपार्थिवादित्वात् समासः, उटजं प्रविश्य = गत्वा “पर्णशालोटजोऽस्त्रियाम्" इत्यमरः । भीषयतीति भोषणा तां भीषणाम् = घोराकृतिम् तां राक्षसीम् विरूपस्य भावः वैरूप्यम् । पुनरुक्तः भावः पौनरुक्त्यम् वैरूप्यस्य = विरूपतायाः पौनरुक्त्यम् = द्विगुणता, इति वैरूप्यपौनरुक्त्यं तेन वैरूप्यपौनरुक्त्येन अयोजयत् = योजितवान् । कर्णनासिकाच्छेदेन भूयोऽतिविकृतामकरोदित्यर्थः ।
समासः–पणः निर्मिता शाला पर्णशाला तां पर्णशालाम् । विकृष्टा असिउँन स विकृष्टासिः । वैरूप्यस्य पौनरुक्त्यमिति वैरूप्यपौनरुक्त्यं तेन वैरूप्यपौनरुक्त्येन।
हिन्दी--इसके बाद लक्ष्मणजी ने तलवार निकालकर और तुरन्त "राम की" पर्णकुटी में घुसकर डरावनी उस राक्षसी को कुरूपपने को द्विगुणता से युक्त कर दो। अर्थात् पहले से ही भयंकर शूर्पणखा के नाक कान काटकर दूनी कुरूपा बना दी ।। ४० ।।
सा वक्रनखधारिण्या वेणुकर्कशपर्वया । अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे ।। ४१ ॥