________________
रघुवंशे
___ सा वक्रनखं धारयतीति वक्रनखधारिणी। तया वेणुवत्कर्कशपर्वया। अत एवाङ्कशस्याकार इवाकारो यस्याः साः तया अङ्गुल्या । तौ राघवावम्बरे व्योम्नि स्थिता । 'अम्बरं व्योम्नि वाससि' इत्यमरः । अतर्जयदभर्त्सयत् । 'तर्ज भर्त्सने' इति धातोश्चौरादिकादनुदात्तेत्त्वादात्मनेपदेन भाव्यम्। तथापि चक्षिङो ङित्करणाज्ज्ञापकादनुदात्तत्त्वनिमित्तस्यात्मनेपदस्यानित्यत्वात्परस्मैपदमूह्यमित्युक्तमाख्यातचन्द्रिकायाम्-'तर्जयते भर्सयते तर्जयतीत्यपि च दृश्यते कविषु' इति ॥
अन्वयः-सा वक्रनखधारिण्या वेणुकर्कशपर्वया अंकुशाकारया अंगुल्या तौ अम्बरे स्थिता सती अतर्जयत् ।
व्याख्या-सा=राक्षसी वक्रान् = कुटिलान् नखान् = कररुहान् धारयतीति वक्रनखधारिणी तया वक्रनखधारिण्या वेणुवत् = वंशवत् कर्कशानि = कठोराणि, पर्वाणि =ग्रन्थयः यस्याः सा वेणुकर्कशपर्वा तया वेणुकर्कशपर्वया अत एव अंकुशस्य = सृणेः आकारः इव आकारो यस्याः सा अंकुशाकारा तया अंकुशारया “अंकुशोऽस्त्री सृणिः स्त्रियाम्" इत्यमरः । एवं भूतया अंगुल्या = करशाखया तौ = रामलक्ष्मणौ अम्बरे = आकाशे स्थिता सती अतर्जयत् = अभयित् तर्जितवतीत्यर्थः। ____समासः-वक्राश्च ते नखाः वक्रनखाः वक्रनखानां धारिणी तया वक्रनखधारिण्या। वेणुवत् कर्कशानि पर्वाणि यस्याः सा तया वेणुकर्कशपर्वया। अंकुशस्य आकार इव आकारः यस्याः सा तया अंकुशाकारया । स च स चेति तौ, तौ इत्येकशेषः। ___ हिन्दी-"नाक, कान काटनेपर" वह शूर्पणखा उड़कर आकाश में खड़ी होकर अपनी उस अंगुली से राम लक्षमण को धमकाने लगी, जिस अंगुली के नख टेढ़े-मेढ़े थे, और बांस की तरह कठोर रूखे पोर ( जोड़ ) थे, तथा जो अंकुश के आकार वाली टेढ़ी मेढ़ी थी ॥ ४१ ॥
प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम् ।
रामोपक्रममाचख्यौ रक्षःपरिभवं नवम् ॥ ४२ ॥ साऽऽशु जनस्थानं प्राप्य खरादिभ्यो राक्षसेभ्यस्तथाविधं स्वाङ्गच्छेदात्मकम् । उपक्रम्यत इत्युपक्रमः कर्मणि घञ्प्रत्ययः । रामस्य कर्तुरुपक्रमः। रामोपक्रमम् । रामेणादावुपक्रान्तमित्यर्थः । 'उपज्ञोपक्रमं तदाद्याचिख्यासायाम्' इति क्लीबत्वम् । तन्नवं रक्षसां कर्मभूतानां परिभवमाचख्यौ च ॥
अन्वयः-सा आशु जनस्थानं प्राप्य खरादिभ्यः तथाविधं रामोपक्रमं नवं रक्षःपरिभवम् आचख्यौ च ।
व्याख्या-सा = राक्षसी आशु = शीघ्रम् “आशुस्तु व्रीहिशीघ्रयोः” इति हैमचन्द्रः। जनस्य स्थानं =भूभागः इति जनस्थानं = दण्डकारण्यम् प्राप्य = गत्वा खं = मुखं, बिलमतिशयेनास्यास्तीति खरः =राक्षसविशेषः रावणभ्राता वैमात्रः। सः आंद ये.' ते खरादयस्तेभ्यः खरादिभ्यः=खरप्रभृतिराक्षसेभ्यः तथा विधा= प्रकारो यस्य स तं तथाविधं = स्वकीयकर्णनासिकाच्छेदरूपम् उप = प्रथम क्रमणम् उपक्रमः। रामस्य कर्तुः उपक्रमः = आरम्भः इति