________________
२०
रघुवंशे
व्याख्या-अस्य = त्वत्कृतस्य उपहासस्य = परिहासस्य फलं = परिणामं सद्यः सपदि प्राप्स्यसि = अवाप्स्यसि। मां = राक्षसी पश्य =अवलोकय, त्वया = सीतया का कृतम् = उपहासकरणं विशेषेण आसमन्तात् जिघ्रतीति व्याघी तस्यां व्याध्यां = शार्दूल्यां विषये मृग्याः = हरिण्याः काः परिभवः = अनादरः इति = एवं त्वमवेहि = विद्धि । मृगीरूपया त्वया व्याघ्रीरूपायाः मम परिभवः कृतोऽस्य फलं नचिरादेव द्रक्ष्यसीत्यर्थः।
हिन्दी-“बिगड़कर शूर्पणखा बोली” इस हंसी का फल शीघ्र ही पाएगी। अर्थात् भोगेगी। मुझे देख ! तेरे द्वारा किया गया यह उपहास वैसा हीं जान रख, जैसा कोई हरिणी बाघिन का अपमान करें। अर्थात् तूने मुझ बाघिन का अपमान किया है। इसका मजा चखा दूंगी ॥ ३७॥
इत्युक्त्वा मैथिली भर्तुरङ्क निविशती भयात् ।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत ॥ ३८ ॥ भयाद्भर्तुरङ्के निविशतीमालिङ्गन्ती मैथिलीमित्युक्त्वा शूर्पणखा नाम्नः सदृशम् । शूर्पाकारनखयुक्तमित्यर्थः । रूपमाकारं प्रत्यपद्यत स्वीचकार । अदर्शयदित्यर्थः ।।
अन्वयः–भयात् भर्तुः अंके निविशतीं मैथिलीम् , इति उक्त्वा शूर्पणखा नाम्नः सदृशं रूपं प्रत्यपद्यत।
व्याख्या-विभेत्यस्मादिति भयं तस्मात् भयात् = भीतेः =साध्वसादित्यर्थः । भर्तुः = पत्युः =रामचन्द्रस्य अंके उत्सङ्गे क्रोडे इत्यर्थः । निविशतीम् = प्रविशतीम् , आलिंगन्तीमित्यर्थः । मैथिली =सीताम् इति = पूर्वश्लोकोक्तम् उक्त्वा = कथयित्वा शर्यतेऽनेनेति शूर्पः, शूर्पयति धान्यादीनि, इति वा शूर्पः। शूर्पाः प्रस्फोटनानीव नखाः =कररुहाः यस्याः सा शूर्पणखा =रावणभगिनी "प्रस्फोटनं शूर्पमस्त्रियामि"त्यमरः । संज्ञायां णत्वमिति । नाम्नः=अभिधानस्य सदृशम् = अनुरूपं रूपम् = आकारम् सूर्पाकारवत् घोरामाकृतिमित्यर्थः प्रत्यपद्यत = प्राप, स्वीचकार । स्वकीयं राक्षसीरूप मदर्शयदित्यर्थः ।
समास.-शूर्पा इव नखाः यस्याः सा शूर्पणखा । “पूर्वपदात्संज्ञायामग' इति णत्वम् । हिन्दी--डर के मारे अपने पति राम की गोदी में छिपती हुई सीता को ( हंसी का फल देख ) कहकर शूर्पणखा ने छाज के समान नख वाला, अपने नाम के समान भयंकर रूप दिखाया । अर्थात् बनावटी रूप छोड़कर अपने असली राक्षसी रूप में आ गई ।। ३८ ॥
लक्ष्मणः प्रथम श्रुत्वा कोकिलाम वादिनीम् । शिवाघोरस्वनां पश्चा झुबुधे विकृतेति ताम् ।। ३९ ॥ लक्ष्मणः प्रथमं कोकिलावन्मञ्जवादिनी पश्चाच्छिवावद्घोरस्वनां तां शूर्पणखां श्रुत्वा । तस्याः स्वनं श्रुत्वेत्यर्थः। सुस्वनः शङ्खः श्रूयत इतिवत्प्रयोगः । विकृता मायाविनीति बुबुधे बुद्धवान् । कर्तरि लिट् ॥