________________
६३
एकादशः सर्गः तत्तस्मात्कारणात् हे मतिमतां वर, पुण्यतीर्थगमनायाप्तुमिष्टामीप्सितां मे गतिं रक्ष पालय । किंतु खिलीकृता दुर्गमीकृतापि स्वर्गपद्धतिरभोगलोलुपं भोगनिःस्पृहं मां न पीडयिष्यति । अतस्तामेव जहीत्यर्थः ।।
अन्वय-तत् हे मति मतां वर, पुण्यतीर्थगमनाय ईप्सितां मे गति रक्ष । “किन्तु" खिलीकृता “अपि" स्वर्गपद्धतिः अभोगलोलुपं मां न पीडयिष्यति ।
व्याख्या-तत् = तस्मात् कारणात् मतिः = बुद्धिः अस्ति येषां ते मतिमन्तस्तेषां हे मतिमतां = बुद्धिमतां वर = श्रेष्ठ ! पुण्यानि = पुण्यजनकानि यानि तीर्थानि = प्रयागादीनि, इति पुण्यतीर्थानि तेषु गमनं तस्मै पुण्यतीर्थगमनाय ईप्सिताम् = इष्टां मे = मम गति = गमनं गमनशक्तिमित्यर्थः । रक्ष = पालय। किन्तु न खिला अखिला खिला संपद्यमाना, इति खिलीकृता = अवरुद्धा अपि पादाभ्यां हन्यते या सा पद्धतिः। स्वर्गस्य = देवलोकस्य पद्धतिः =मार्गः भोगे = स्वर्गादिसुखे लोलुपः इति भोगलोलुपः न भोगलोलुपः = सुखलोलुपः इति अभोगलोलुपस्तम् अभोगलोलुपं मां =भार्गवं, भोगतृष्णानिष्पृहं परशुराममित्यर्थः न पीडयिष्यति =न खेदयिष्यति अतः मे स्वर्गपद्धतिं विनाशय, गतिञ्च पालय। गर्हितं लुम्पतीति लोलुपः। “समौ लोलुपलोलुभौ" इत्यमरः ।
समासः-पुण्यानि यानि तीर्थानि पुण्य तीर्थानि, तेषु गमनं तस्मै पुण्यतीर्थ गमनाय । स्वर्गस्य पद्धतिः स्वर्गपद्धतिः। भोगे लोलुपः भोगलोलुपः, न भोगलोलुपः अभोगलोलुपस्तम् अभोगलोलुपम्।
हिन्दी-इसलिये हे बुद्धिमानों में श्रेष्ठ रामजी ! पवित्र तीर्थों की यात्रा करने के लिये अभिलषित मेरी गति की रक्षा करो। भोगसुख की इच्छा ( लोभ ) न करने वाले मुझ त्यागीका स्वर्ग जाना रोक दिया जाने से कुछ भी कष्ट मुझे न होगा। अतः मेरे स्वर्ग को नष्ट कर गति की रक्षा करो ॥ ८७ ॥
प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् ।
भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः ॥ ८८ ॥ राघवस्तथेति प्रत्यपद्यताङ्गीकृतवान् । प्राङ्मुख इन्द्रदिङ्मुखः सायकं विससर्ज च। स सायकः सुकृतोऽपि साधुकारिणोऽपि । करोतेः विप् । भार्गवरय दुरत्ययो दुरतिक्रमः स्वर्गमार्गस्य परिघः प्रतिबन्धोऽभवत् ॥
अन्वयः-राघवः तथा इति प्रत्यपद्यत, प्राङ्मुखः सन् सायकं विससर्ज, सः सुकृतः अपि भार्गवस्य दुरत्ययः स्वर्गमार्गपरिघ अभवत् ।
व्याख्या-राघवः रामः तथास्तु इति = एवं प्रत्यपद्यत= स्वीकृतवान् प्राक् = पूर्वदिशि मुखम् = आननं यस्य सः प्राङ्मुखः सन् पूर्वाभिमुखो भूत्वेत्यर्थः। स्यति नाशयतीति सायकस्तं सायकं = बाणं विससर्ज = मुमोच । सः सायकः सुष्ठु करोतीति सुकृत् तस्य सुकृतः = यशादिशुभकर्मकारिणः भार्गवस्य = परशुरामस्य दुःखेन अत्येतुं शक्यः दुरत्ययः=दुरतिक्रमः स्वर्गस्य = वैकुण्ठस्य मार्गः = पन्थाः तस्य परिधः = अर्गला प्रतिबन्ध इत्यर्थः। इति स्वर्ग