________________
रघुवंशे
परमात्मनि वाद्यभेदे स्वरूपे च" इति हैमः । त्वां =राघवं पुरा भवः पुरातनस्तं पुरातनं = पुराण पुरुषम् = परमात्मानं न वेद्मि = न जानामि, इति न किन्तुजानाम्येव । किन्तु गां = भुवंगतस्य = प्राप्तस्य अवतीर्णस्येत्यर्थः तव =भवतः रामचन्द्रस्य विष्णोः इदं वैष्णवं = विष्णुसंबन्धि धाम = तेजः द्रष्टुमिच्छति दिदृक्षति दिदृक्षते, तेन = द्रष्टुमिच्छना मया =भार्गवेण कोपितः = क्रोधितः ह्यसि = निश्चयेन वर्तसे । अहं त्वां विष्णुं जानामि, किन्तु अत्रावतीर्णस्य ते प्रभावं ज्ञातुमेवं मया भान् कोपित इत्यर्थः ।
हिन्दी-“यह सुनकर" ऋषि परशुराम जी, राम से बोले कि साक्षात् पुराण पुरुष आपको मैं नही जानता हूँ। ऐसी बात नहीं है अर्थात् सम्यक् रूप से जानता हूँ। किन्तु भूलोक में अवतार लेकर आए हुये तुम्हारे विष्णु संबन्धी तेज को देखने की इच्छा से मैंने तुम्हें क्रोधित किया है। अर्थात् कितना तेज या अंश लेकर अवतार लिये हो ॥ ८५ ॥
भस्मसात्कृतवतः पितृद्विषः पात्रसाच्च वसुधां ससागराम् ।
आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥ ८६ ॥ पितृद्विषः पितृवैरिणो भस्मसात्कृतवतः कोपेन भस्मीकुर्वतः । 'विभाषा सातिकालन्ये' इति सातिप्रत्ययः । ससागरां वसुधां च पात्रसात्पात्राधीनं देयं कृतवतः। 'देये त्रा च' इति चकारात्सातिः। कृतकृत्यस्य मे परमेष्ठिना परमपुरुषेण त्वया आहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव ॥
अन्वयः-पितृद्विषः भस्मसात् कृतवतः ससागरां वसुधां च पात्रसात् कृतवतः मे परमेष्ठिना त्वया आहितः जयविपर्ययः अपि श्लाघ्य एव 'अस्ति' ।
व्याख्या-पितरं = जनकं, जमदग्निं द्विषन्तीति ते, तान् पितृद्विषः मम पितृ वैरिणः भस्मसात् कृतवतः = कात्स्न्येन सर्वान् शत्रून् भस्मीकृतवतः क्रोधेनेत्यर्थः । सागरैः = समुद्रैः सहिता ससागरा तां ससागरां वसूनि = रत्नानि धारयतीति तां वसुन्धरां = पृथिवीं पात्रस्य अधीनं देयं अकारीति तस्य पात्रसात् कृतवतः =पात्राधीनं विहितवतः । एकविंशतिवारं ब्रह्मणेभ्यो दत्तवतः अतएव कृतकृत्यस्य मे भार्गवस्य परमे व्योमनि चिदाकाशे तिष्ठतीति परमेष्ठी । तेन परमेष्ठिना= परमपुरुषेण त्वया =श्रीरामचन्द्रेण आहितः कृतः जयस्य = विजयस्य विपर्ययः = वैपरीत्यं, पराजयः अपि श्लाधितुं योग्यः श्लाव्यः = प्रशंसनीय ऐवेति निश्चयेन । ___ समासः-पितुः द्विषः पितृद्विषः तान् पितृद्विषः। सागरैः सहिता ससागरा तां ससागराम् । जयस्य विपर्यय इति जयविपर्ययः।
हिन्दी-अपने पिता के शत्रुओं को भस्म करने वाले ( विनाश करने वाले ) और समुद्रपर्यन्त सारो पृथिवी, ब्राह्मणों को दान देने वाले, मुझ परशुराम को परम पुरुष तुम्हारे से की गई हार भी प्रशंसनीय ही है। अर्थात् इक्कीस बार क्षत्रियों को मार कर सारी पृथिवी दान देने से कृतकृत्य हूँ अतः अब परम पुरुष तुमसे हारना भी गौरव की बात है ॥ ८६ ॥
तद्गति मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे । पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥ ८७ ॥