________________
६०
रघुवंशे मार्गपरिघः। परितो हन्यतेऽनेनेति परिधः। “परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेऽपि च" इति हैमः । अभवत् =जातः । ___ समासः-प्राक् मुखं यस्य स प्राङ्मुखः। स्वर्गस्य मार्गः स्वर्गमार्गः। स्वर्गमार्गस्य परिषः इति स्वर्गमार्गपरिवः । __ हिन्दी-रामचन्द्र ने परशुरामजी की बात मान ली, और पूर्वाभिमुख होकर बाण को छोड़ दिया। वह बाण शुभ कर्म करने वाले भी परशुराम के स्वर्ग जाने के मार्ग का अलंघनीय ( न हँटने वाला ) लोहे का कील ( प्रतिबन्धक ) बन गया ॥ ८८ ॥
राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् । निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ८९ ॥ राबवोऽपि क्षम्यतामिति वदंस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशत्प्रणनाम । तथाहि, तरस्विनां चलवतां तरसा बलेन निर्जितेषु शत्रुषु प्रणतिरेव कीर्तये । भवतीति शेषः ॥
अन्वयः-राववः अपि क्षम्यताम् इति वदन् तपोनिधेः चरणी अस्पृशत् । तरस्विनां तरसा निजितेषु शत्रुषु प्रणतिः एव कीर्तये "भवति" ।
व्याख्या-राववः =रामः अपि क्षम्यतां = मृष्यताम् इति = एवं वदन् = कथयन् तपसां = तपस्यानां निधिः = शेवधिस्तस्य तपोनिधेः = भार्गवस्य । नितरां धीयते इति नितरां दधाति =पोषति अनेन वा निधिः । “निधिर्ना शेवधिः" इत्यमरः । चरणौ = पादौ समस्पृशत् = प्रणतवान् , पादौ स्पृथ्वा प्रणामं कृतवानित्यर्थः। तथाहि-तरत्यनेनेति तरः “तरो बले जवे" इति हैमः । तरः = बलमस्ति येषां ते तरस्विनः तेषां तरस्विनां शत्रुषु = रिपुषु प्रणतिः = प्रणामः कीर्तये = यशसे भवतीति शेषः ।
समासः-तपसां निधिः तपोनिधिस्तस्य तपोनिधेः । नितरां जिताः निर्जितास्तेषु निर्जितेषु ।
हिन्दी-"और" राम ने भी “भगवन्” क्षमा करें यह कहते हुये, धर्म-प्राण परशुराम जी के चरणों को स्पर्श किया। अर्थात् चरण छूकर प्रणाम किया। यह ठीक ही हैक्योंकि-पराक्रमियों के “अपने" बल से जीते गये शत्रुओं के प्रति प्रणाम करना एवं नम्रता बरतना अपनी कीर्ति के लिये ही है। अर्थात् शत्रु को बल से जीतकर भी पुनः शत्रुका आदर करना महानता का लक्षण है ॥ ८९ ॥
राजसत्त्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा ।
नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥ ९० ॥ मातुरागतं मातृकं राजसत्वं रजोगुणप्रधानत्वमवधूय पितुरागतं पित्र्यं शमं यदा गमितोऽस्मि तदा त्वया ममापेक्षितत्वादनिन्दितमगर्हितं फलं स्वर्गहानिलक्षणं यस्य सोऽयं निग्रहोऽपकारोऽप्यनुग्रहीकृतो ननूपकारीकृतः खलु ॥
अन्वयः-मातृकं राजसत्वम् अवधूय पित्र्यं शमं यदा गमितः अस्मि, तदा त्वया अनिन्दितफलः अयं निग्रहः अपि अनुग्रहीकृतः ननु ।